ऋग्वेद - मण्डल 10/ सूक्त 164/ मन्त्र 4
ऋषिः - प्रचेताः
देवता - दुःस्वप्नघ्नम्
छन्दः - विराडनुष्टुप्
स्वरः - गान्धारः
यदि॑न्द्र ब्रह्मणस्पतेऽभिद्रो॒हं चरा॑मसि । प्रचे॑ता न आङ्गिर॒सो द्वि॑ष॒तां पा॒त्वंह॑सः ॥
स्वर सहित पद पाठयत् । इ॒न्द्र॒ । ब्र॒ह्म॒णः॒ । प॒ते॒ । अ॒भि॒ऽद्रो॒हम् । चरा॑मसि । प्रऽचे॑ताः । नः॒ । आ॒ङ्गि॒र॒सः । द्वि॒ष॒ताम् । पा॒तु॒ । अंह॑सः ॥
स्वर रहित मन्त्र
यदिन्द्र ब्रह्मणस्पतेऽभिद्रोहं चरामसि । प्रचेता न आङ्गिरसो द्विषतां पात्वंहसः ॥
स्वर रहित पद पाठयत् । इन्द्र । ब्रह्मणः । पते । अभिऽद्रोहम् । चरामसि । प्रऽचेताः । नः । आङ्गिरसः । द्विषताम् । पातु । अंहसः ॥ १०.१६४.४
ऋग्वेद - मण्डल » 10; सूक्त » 164; मन्त्र » 4
अष्टक » 8; अध्याय » 8; वर्ग » 22; मन्त्र » 4
अष्टक » 8; अध्याय » 8; वर्ग » 22; मन्त्र » 4
पदार्थः -
(इन्द्र ब्रह्मणस्पते) हे ऐश्वर्यवन् वेदज्ञानस्य स्वामिन् परमात्मन् ! (यत्-अभिद्रोहं चरामसि) यत्खलु कमभिद्रोहं हिंसाभावं वयं चरामः अतः परोक्षेणोच्यते (आङ्गिरसः प्रचेताः) अङ्गिषु-आत्मसु रममाणो रसयिता वा सर्वज्ञः स परमात्मा (द्विषताम्-अहंसः नः पातु) द्विषतां सम्बन्धिनः पापात् खल्वस्मान् रक्षतु ॥४॥