ऋग्वेद - मण्डल 10/ सूक्त 165/ मन्त्र 5
ऋषिः - कपोतो नैर्ऋतः
देवता - कपोतापहतौप्रायश्चित्तं वैश्वदेवम्
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
ऋ॒चा क॒पोतं॑ नुदत प्र॒णोद॒मिषं॒ मद॑न्त॒: परि॒ गां न॑यध्वम् । सं॒यो॒पय॑न्तो दुरि॒तानि॒ विश्वा॑ हि॒त्वा न॒ ऊर्जं॒ प्र प॑ता॒त्पति॑ष्ठः ॥
स्वर सहित पद पाठऋ॒चा । क॒पोत॑म् । नु॒द॒त॒ । प्र॒ऽनोद॑म् । इष॑म् । मद॑न्तः । परि॑ । गाम् । न॒य॒ध्व॒म् । स॒म्ऽयो॒पय॑न्तः । दुः॒ऽइ॒तानि॑ । विश्वा॑ । हि॒त्वा । नः॒ । ऊर्ज॑म् । प्र । प॒ता॒त् । पति॑ष्ठः ॥
स्वर रहित मन्त्र
ऋचा कपोतं नुदत प्रणोदमिषं मदन्त: परि गां नयध्वम् । संयोपयन्तो दुरितानि विश्वा हित्वा न ऊर्जं प्र पतात्पतिष्ठः ॥
स्वर रहित पद पाठऋचा । कपोतम् । नुदत । प्रऽनोदम् । इषम् । मदन्तः । परि । गाम् । नयध्वम् । सम्ऽयोपयन्तः । दुःऽइतानि । विश्वा । हित्वा । नः । ऊर्जम् । प्र । पतात् । पतिष्ठः ॥ १०.१६५.५
ऋग्वेद - मण्डल » 10; सूक्त » 165; मन्त्र » 5
अष्टक » 8; अध्याय » 8; वर्ग » 23; मन्त्र » 5
अष्टक » 8; अध्याय » 8; वर्ग » 23; मन्त्र » 5
पदार्थः -
(ऋचा कपोतम्) स्तुत्या प्रशंसया दूतम् (प्रणोदं नुदत) पुनः प्रेरणीयं तद्देशं प्रति प्रेरयत (मदन्तः) हर्षयन्तः (इषं गां परि-नयध्वम्) अन्नं गवादिपशुं परिरक्षत (विश्वा दुरितानि) सर्वाणि दुष्कृत्यानि (संयोपयन्तः) गोपयन्तः (नः-ऊर्जं हित्वा) अस्मभ्यं बलं त्यक्त्वा (पतिष्ठः प्रपतात्) पतनशीलः प्रगच्छेत् ॥५॥