Loading...
ऋग्वेद मण्डल - 10 के सूक्त 165 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 165/ मन्त्र 4
    ऋषिः - कपोतो नैर्ऋतः देवता - कपोतापहतौप्रायश्चित्तं वैश्वदेवम् छन्दः - भुरिक्त्रिष्टुप् स्वरः - धैवतः

    यदुलू॑को॒ वद॑ति मो॒घमे॒तद्यत्क॒पोत॑: प॒दम॒ग्नौ कृ॒णोति॑ । यस्य॑ दू॒तः प्रहि॑त ए॒ष ए॒तत्तस्मै॑ य॒माय॒ नमो॑ अस्तु मृ॒त्यवे॑ ॥

    स्वर सहित पद पाठ

    यत् । उलू॑कः । वद॑ति । मो॒घम् । ए॒तत् । यत् । क॒पोतः॑ । प॒दम् । अ॒ग्नौ । कृ॒णोति॑ । यस्य॑ । दू॒तः । प्रऽहि॑तः । ए॒षः । ए॒तत् । तस्मै॑ । य॒माय॑ । नमः॑ । अ॒स्तु॒ । मृ॒त्यवे॑ ॥


    स्वर रहित मन्त्र

    यदुलूको वदति मोघमेतद्यत्कपोत: पदमग्नौ कृणोति । यस्य दूतः प्रहित एष एतत्तस्मै यमाय नमो अस्तु मृत्यवे ॥

    स्वर रहित पद पाठ

    यत् । उलूकः । वदति । मोघम् । एतत् । यत् । कपोतः । पदम् । अग्नौ । कृणोति । यस्य । दूतः । प्रऽहितः । एषः । एतत् । तस्मै । यमाय । नमः । अस्तु । मृत्यवे ॥ १०.१६५.४

    ऋग्वेद - मण्डल » 10; सूक्त » 165; मन्त्र » 4
    अष्टक » 8; अध्याय » 8; वर्ग » 23; मन्त्र » 4

    पदार्थः -
    (उलूकः-यत्-वदति) उलूकोऽव्यक्तभाषी गुप्तभाषी “वल संवरणे” [भ्वादि०] “तत ऊक् प्रत्ययः” [उणादि० ४।४१] यद् वदति (तत्-मोघम्) तद् व्यर्थं भवतु (कपोतः-यत्-अग्नौ पदं कृणोति) वेशभाषाभ्यां विचित्रो दूतः-अग्नौ पदं धारयति दग्धो भवति भेदेन वार्तां कृत्वा (यस्य प्रहितः-एषः-दूतः) यस्य दूतः प्रेरितोऽयम् (तस्मै यमाय मृत्यवे-एतत्-नमः-अस्तु) तस्मै नियन्त्रे मारकायास्माकं वज्रः-एष भवतु ॥४॥

    इस भाष्य को एडिट करें
    Top