साइडबार
ऋग्वेद - मण्डल 10/ सूक्त 171/ मन्त्र 3
त्वं त्यमि॑न्द्र॒ मर्त्य॑मास्त्रबु॒ध्नाय॑ वे॒न्यम् । मुहु॑: श्रथ्ना मन॒स्यवे॑ ॥
स्वर सहित पद पाठत्वम् । त्यम् । इ॒न्द्र॒ । मर्त्य॑म् । आ॒स्त्र॒ऽबु॒ध्नाय॑ । वे॒न्यम् । मुहुः॑ । श्र॒थ्नाः॒ । म॒न॒स्यवे॑ ॥
स्वर रहित मन्त्र
त्वं त्यमिन्द्र मर्त्यमास्त्रबुध्नाय वेन्यम् । मुहु: श्रथ्ना मनस्यवे ॥
स्वर रहित पद पाठत्वम् । त्यम् । इन्द्र । मर्त्यम् । आस्त्रऽबुध्नाय । वेन्यम् । मुहुः । श्रथ्नाः । मनस्यवे ॥ १०.१७१.३
ऋग्वेद - मण्डल » 10; सूक्त » 171; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 29; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 29; मन्त्र » 3
पदार्थः -
(इन्द्र त्वम्) हे ऐश्वर्यवन् परमेश्वर ! त्वम् (आस्त्र-बुध्नाय मनस्यवे) बुध्नस्य शरीरस्य “बुध्नं शरीरम्” [ऋ० १।५२।६ दयानन्दः] बुध्नस्य शरीरस्य अस्त्रं क्षेपकं कामादिपापम् “अस्त्रबुध्नम् राजदन्तादिषु परम्” [अष्टा० २।२।३१] इति परनिपातः तन्नाशनकुशलः-आस्त्रबुध्नस्तस्मै मनस्विने (त्यं वेन्यं मर्त्यम्-मुहुः श्रथ्नाः) तं ग्रहीतारं बन्धकम् “वेणृ वेनृ गति…ग्रहणेषु” [भ्वादि०] पुनः पुनः हंसि ॥३॥