Loading...
ऋग्वेद मण्डल - 10 के सूक्त 171 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 171/ मन्त्र 2
    ऋषिः - इटो भार्गवः देवता - इन्द्र: छन्दः - विराड्गायत्री स्वरः - षड्जः

    त्वं म॒खस्य॒ दोध॑त॒: शिरोऽव॑ त्व॒चो भ॑रः । अग॑च्छः सो॒मिनो॑ गृ॒हम् ॥

    स्वर सहित पद पाठ

    त्वम् । म॒खस्य॑ । दोध॑तः । शिरः॑ । अव॑ । त्व॒चः । भ॒रः॒ । अग॑च्छः । सो॒मिनः॑ । गृ॒हम् ॥


    स्वर रहित मन्त्र

    त्वं मखस्य दोधत: शिरोऽव त्वचो भरः । अगच्छः सोमिनो गृहम् ॥

    स्वर रहित पद पाठ

    त्वम् । मखस्य । दोधतः । शिरः । अव । त्वचः । भरः । अगच्छः । सोमिनः । गृहम् ॥ १०.१७१.२

    ऋग्वेद - मण्डल » 10; सूक्त » 171; मन्त्र » 2
    अष्टक » 8; अध्याय » 8; वर्ग » 29; मन्त्र » 2

    पदार्थः -
    (त्वम्) हे ऐश्वर्यवन् परमेश्वर ! (मखस्य दोधतः) यज्ञस्य श्रेष्ठकर्मणो यो कम्पयति विचालयति तस्य कम्पयमानस्य (त्वचः-शिरः-अव भरः) त्वक्तः शरीरतः शिरोऽवहरसि पृथक्करोषि (सोमिनः-गृहम्-अगच्छः) उपासनारसवतः-उपासकस्य हृदयगृहं गच्छसि प्राप्नोषि ॥२॥

    इस भाष्य को एडिट करें
    Top