Loading...
ऋग्वेद मण्डल - 10 के सूक्त 176 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 176/ मन्त्र 1
    ऋषिः - सूनुरार्भवः देवता - ऋभवः छन्दः - विराडनुष्टुप् स्वरः - गान्धारः

    प्र सू॒नव॑ ऋभू॒णां बृ॒हन्न॑वन्त वृ॒जना॑ । क्षामा॒ ये वि॒श्वधा॑य॒सोऽश्न॑न्धे॒नुं न मा॒तर॑म् ॥

    स्वर सहित पद पाठ

    प्र । सू॒नवः॑ । ऋ॒भू॒णाम् । बृ॒हत् । न॒व॒न्त॒ । वृ॒जना॑ । क्षाम॑ । ये । वि॒श्वऽधा॑यसः । अश्न॑न् । धे॒नुम् । न । मा॒तर॑म् ॥


    स्वर रहित मन्त्र

    प्र सूनव ऋभूणां बृहन्नवन्त वृजना । क्षामा ये विश्वधायसोऽश्नन्धेनुं न मातरम् ॥

    स्वर रहित पद पाठ

    प्र । सूनवः । ऋभूणाम् । बृहत् । नवन्त । वृजना । क्षाम । ये । विश्वऽधायसः । अश्नन् । धेनुम् । न । मातरम् ॥ १०.१७६.१

    ऋग्वेद - मण्डल » 10; सूक्त » 176; मन्त्र » 1
    अष्टक » 8; अध्याय » 8; वर्ग » 34; मन्त्र » 1

    पदार्थः -
    (ऋभूणां) ऋभवः ‘विभक्तिव्यत्ययेन प्रथमास्थाने षष्ठी’ बहुभासमाना रश्मयः “ऋभवः-किरणाः” [ऋ० १।११०।६ दयानन्दः] मेधाविनो वा “ऋभु मेधाविनाम” [निघ० ३।१५] (सूनवः) उत्पादनधर्मिणः ज्ञानस्य सोतारः प्रेरकाः (बृहत्-वृजना प्र नवन्त) बृहन्ति महान्ति बलानि “वृजनं बलनाम” [निघ० २।६] प्रचरन्ति “नवते-गतिकर्मा” [निघ० २।१४] (विश्वधायसः) विश्वस्य जगतो धारकाः (ये) ये खलु (क्षाम) पृथिवीम् “क्षाम पृथिवीनाम” [नि० १।१] (धेनुं न मातरम्-अश्नन्) यथा दुग्धदात्रीं मातरं गां च तथा प्राप्नुवन्ति ॥१॥

    इस भाष्य को एडिट करें
    Top