Loading...
ऋग्वेद मण्डल - 10 के सूक्त 176 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 176/ मन्त्र 2
    ऋषिः - सूनुरार्भवः देवता - अग्निः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    प्र दे॒वं दे॒व्या धि॒या भर॑ता जा॒तवे॑दसम् । ह॒व्या नो॑ वक्षदानु॒षक् ॥

    स्वर सहित पद पाठ

    प्र । दे॒वम् । दे॒व्या । धि॒या । भर॑त । जा॒तऽवे॑दसम् । ह॒व्या । नः॒ । व॒क्ष॒त् । आनु॒षक् ॥


    स्वर रहित मन्त्र

    प्र देवं देव्या धिया भरता जातवेदसम् । हव्या नो वक्षदानुषक् ॥

    स्वर रहित पद पाठ

    प्र । देवम् । देव्या । धिया । भरत । जातऽवेदसम् । हव्या । नः । वक्षत् । आनुषक् ॥ १०.१७६.२

    ऋग्वेद - मण्डल » 10; सूक्त » 176; मन्त्र » 2
    अष्टक » 8; अध्याय » 8; वर्ग » 34; मन्त्र » 2

    पदार्थः -
    (जातवेदसं देवं देव्या धिया प्र भरत) हे विद्वांसः ! यूयं जातानि-उत्पन्नानि वस्तूनि वेद्यन्ते ज्ञायन्ते येन तं परमेश्वरं सूर्यं वा तं देवं ज्ञानदातारं प्रकाशदातारं वा देव्या धिया तदीयया वाचा “वाग्वै धीः” [का० श० ४।१।४।१३] धीरसीति “ध्यायते हि वाचेत्थं चेत्थं च” [काठ० १४।३] यद्वा तदीयप्रकाशकर्मणा “धीः कर्मनाम” [निघ० २।१] प्रकृष्टं-धारयत प्रार्थयध्वम् यद्वा सेवध्वम् (नः-हव्या-आनुषक्-वक्षत्) अस्मभ्यमादातव्यानि वस्तूनि खल्वानुकूल्येन प्रापयेत् ॥२॥

    इस भाष्य को एडिट करें
    Top