साइडबार
ऋग्वेद - मण्डल 10/ सूक्त 181/ मन्त्र 3
ऋषिः - धर्मः सौर्यः
देवता - विश्वेदेवा:
छन्दः - पादनिचृत्त्रिष्टुप्
स्वरः - धैवतः
ते॑ऽविन्द॒न्मन॑सा॒ दीध्या॑ना॒ यजु॑: ष्क॒न्नं प्र॑थ॒मं दे॑व॒यान॑म् । धा॒तुर्द्युता॑नात्सवि॒तुश्च॒ विष्णो॒रा सूर्या॑दभरन्घ॒र्ममे॒ते ॥
स्वर सहित पद पाठते । अ॒वि॒न्द॒न् । मन॑सा । दीध्या॑नाः । यजुः॑ । स्क॒न्नम् । प्र॒थ॒मम् । दे॒व॒ऽयान॑म् । धा॒तुः । द्युता॑नात् । स॒वि॒तुः । च॒ । विष्णोः॑ । आ । सूर्या॑त् । अ॒भ॒र॒न् । घ॒र्मम् । ए॒ते ॥
स्वर रहित मन्त्र
तेऽविन्दन्मनसा दीध्याना यजु: ष्कन्नं प्रथमं देवयानम् । धातुर्द्युतानात्सवितुश्च विष्णोरा सूर्यादभरन्घर्ममेते ॥
स्वर रहित पद पाठते । अविन्दन् । मनसा । दीध्यानाः । यजुः । स्कन्नम् । प्रथमम् । देवऽयानम् । धातुः । द्युतानात् । सवितुः । च । विष्णोः । आ । सूर्यात् । अभरन् । घर्मम् । एते ॥ १०.१८१.३
ऋग्वेद - मण्डल » 10; सूक्त » 181; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 39; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 39; मन्त्र » 3
पदार्थः -
(ते मनसा दीध्यानाः-अविन्दन्) ते पूर्वोक्ता ऋषयो मनसा बुद्ध्या प्रकाशमानः लभन्ते (यजुः-स्कन्नं प्रथमं देवयानम्) यजुर्भिः साधितं प्रथमं देवा यस्मिन् यान्ति तमध्यात्मं यज्ञं लभन्ते-इत्यर्थः (धातुः द्युतानात्-सवितुः-विष्णोः) इत्येषां सकाशात् (एते सूर्यात्- घर्मम्-आभरन्) एते पूर्वोक्ता-ऋषयः सूर्योदयात् सूर्योदये सति यज्ञम् “घर्मः-यज्ञनाम” [निघ० ३।१७] समन्तात्-कुर्वन्ति ॥३॥