Loading...
ऋग्वेद मण्डल - 10 के सूक्त 182 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 182/ मन्त्र 1
    ऋषिः - तपुर्मूर्धा बार्हस्पत्यः देवता - बृहस्पतिः छन्दः - भुरिक्त्रिष्टुप् स्वरः - धैवतः

    बृह॒स्पति॑र्नयतु दु॒र्गहा॑ ति॒रः पुन॑र्नेषद॒घशं॑साय॒ मन्म॑ । क्षि॒पदश॑स्ति॒मप॑ दुर्म॒तिं ह॒न्नथा॑ कर॒द्यज॑मानाय॒ शं योः ॥

    स्वर सहित पद पाठ

    बृह॒स्पतिः॑ । न॒य॒तु॒ । दुः॒ऽगहा॑ । ति॒रः । पुनः॑ । ने॒ष॒त् । अ॒घऽशं॑साय । मन्म॑ । क्षि॒पत् । अश॑स्तिम् । अप॑ । दुः॒ऽम॒तिम् । ह॒न् । अथ॑ । क॒र॒त् । यज॑मानाय । शम् । योः ॥


    स्वर रहित मन्त्र

    बृहस्पतिर्नयतु दुर्गहा तिरः पुनर्नेषदघशंसाय मन्म । क्षिपदशस्तिमप दुर्मतिं हन्नथा करद्यजमानाय शं योः ॥

    स्वर रहित पद पाठ

    बृहस्पतिः । नयतु । दुःऽगहा । तिरः । पुनः । नेषत् । अघऽशंसाय । मन्म । क्षिपत् । अशस्तिम् । अप । दुःऽमतिम् । हन् । अथ । करत् । यजमानाय । शम् । योः ॥ १०.१८२.१

    ऋग्वेद - मण्डल » 10; सूक्त » 182; मन्त्र » 1
    अष्टक » 8; अध्याय » 8; वर्ग » 40; मन्त्र » 1

    पदार्थः -
    (बृहस्पतिः) ब्रह्माण्डस्य स्वामी (दुर्गहा) दुर्गमनीयस्य दुःखस्य हन्ता (तिरः-नयतु) तिरस्करणीयं दूरं नयतु (अघशंसाय मन्म पुनः नेषत्) पापशंसकाय वधसाधनं शस्त्रम् “मन्यतेर्वधकर्मणः” [निरु० १०।२९] पुनः पुनर्नयते (अशस्तिम्-अपक्षिपत्) शस्तिः सद्भावना तद्रहितं जनं बहिर्गमयेत् (दुर्मतिं हन्) दुर्बुद्धिं हन्तु (अथ) अथ च (यजमानाय शंयोः करत्) आत्मयाजिने रोगाणां शमनं भयानाञ्च यावनं कुर्यात् ॥१॥

    इस भाष्य को एडिट करें
    Top