Loading...
ऋग्वेद मण्डल - 10 के सूक्त 182 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 182/ मन्त्र 2
    ऋषिः - तपुर्मूर्धा बार्हस्पत्यः देवता - बृहस्पतिः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    नरा॒शंसो॑ नोऽवतु प्रया॒जे शं नो॑ अस्त्वनुया॒जो हवे॑षु । क्षि॒पदश॑स्ति॒मप॑ दुर्म॒तिं ह॒न्नथा॑ कर॒द्यज॑मानाय॒ शं योः ॥

    स्वर सहित पद पाठ

    नरा॒शंसः॑ । नः॒ । अ॒व॒तु॒ । प्र॒ऽया॒जे । शम् । नः॒ । अ॒स्तु॒ । अ॒नु॒ऽया॒जः । हवे॑षु । क्षि॒पत् । अश॑स्तिम् । अप॑ । दुः॒ऽम॒तिम् । ह॒न् । अथ॑ । क॒र॒त् । यज॑मानाय । शम् । योः ॥


    स्वर रहित मन्त्र

    नराशंसो नोऽवतु प्रयाजे शं नो अस्त्वनुयाजो हवेषु । क्षिपदशस्तिमप दुर्मतिं हन्नथा करद्यजमानाय शं योः ॥

    स्वर रहित पद पाठ

    नराशंसः । नः । अवतु । प्रऽयाजे । शम् । नः । अस्तु । अनुऽयाजः । हवेषु । क्षिपत् । अशस्तिम् । अप । दुःऽमतिम् । हन् । अथ । करत् । यजमानाय । शम् । योः ॥ १०.१८२.२

    ऋग्वेद - मण्डल » 10; सूक्त » 182; मन्त्र » 2
    अष्टक » 8; अध्याय » 8; वर्ग » 40; मन्त्र » 2

    पदार्थः -
    (नराशंसः) नरैः शस्यमानः स्तूयमानः “यो नरैः-अभितः शंस्यते स्तूयते” [ऋ० १।३६।६ दयानन्दः] परमेश्वरः (नः प्रयाजे-अवतु) अस्मान् रेतःसेचने-“रेतः सिच्यं हि प्रयाजाः” [कौ० १०।३] रक्षतु (शं नः-अस्तु-अनुयाजः) कल्याणकारी-अस्माकं रेतोधारणम् “रेतो धेयम्-अनुयाजः” [कौ० १०।३] (हवेषु) गृहे परस्परह्वानेषु (क्षिपत्०) अग्रे पूर्ववत् ॥२॥

    इस भाष्य को एडिट करें
    Top