Loading...
ऋग्वेद मण्डल - 10 के सूक्त 2 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 2/ मन्त्र 5
    ऋषिः - त्रितः देवता - अग्निः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    यत्पा॑क॒त्रा मन॑सा दी॒नद॑क्षा॒ न य॒ज्ञस्य॑ मन्व॒ते मर्त्या॑सः । अ॒ग्निष्टद्धोता॑ क्रतु॒विद्वि॑जा॒नन्यजि॑ष्ठो दे॒वाँ ऋ॑तु॒शो य॑जाति ॥

    स्वर सहित पद पाठ

    यत् । पा॒क॒ऽत्रा । मन॑सा । दी॒नऽद॑क्षाः । न । य॒ज्ञस्य॑ । म॒न्व॒ते । मर्त्या॑सः । अ॒ग्निः । तत् । होता॑ । क्र॒तु॒ऽवित् । वि॒ऽजा॒नन् । यजि॑ष्ठः । दे॒वान् । ऋ॒तु॒ऽशः । य॒जा॒ति॒ ॥


    स्वर रहित मन्त्र

    यत्पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वते मर्त्यासः । अग्निष्टद्धोता क्रतुविद्विजानन्यजिष्ठो देवाँ ऋतुशो यजाति ॥

    स्वर रहित पद पाठ

    यत् । पाकऽत्रा । मनसा । दीनऽदक्षाः । न । यज्ञस्य । मन्वते । मर्त्यासः । अग्निः । तत् । होता । क्रतुऽवित् । विऽजानन् । यजिष्ठः । देवान् । ऋतुऽशः । यजाति ॥ १०.२.५

    ऋग्वेद - मण्डल » 10; सूक्त » 2; मन्त्र » 5
    अष्टक » 7; अध्याय » 5; वर्ग » 30; मन्त्र » 5

    पदार्थः -
    (पाकत्रा-मनसा) पक्तव्येनार्थादविपक्वेन “पाकः पक्तव्यः” [निरु० ६।१२] “देव....द्वितीयासप्तम्योर्बहुलम्” [अष्टा० ५।४।५६] बहुलग्रहणात् तृतीयायां वा प्रत्ययः, मनसा (दीनदक्षाः) क्षीणज्ञानबलाः (मर्त्यासः) मनुष्याः (यज्ञस्य न मन्वते) यज्ञं भुवनज्येष्ठं द्युमण्डलम् “यज्ञो वै भुवनज्येष्ठः” [कौ० २५।११] “यज्ञो वै भुवनम्” [तै० ३।३।७।५] द्वितीयार्थे षष्ठी व्यत्ययेन, न खलु जानन्ति (यत्-होता-क्रतुवित्-अग्निः-तत्-विजानन्) यत् ग्रहीता स्वाश्रये स्थापयिता, क्रियावन्तं ग्रहादिकं स्वाश्रये लब्धा प्रापयिता महान्-अग्निः-सूर्यो विज्ञायमानः, “कर्मणि कर्त्तृप्रत्ययः” (यजिष्ठः) अतिशयेन सर्वैः सह सङ्गतः (ऋतुशः-देवान् यजाति) कालशो यथाकालं ग्रहान् तद्गत्यां सङ्गमयति संयोजयति ॥५॥

    इस भाष्य को एडिट करें
    Top