ऋग्वेद - मण्डल 10/ सूक्त 2/ मन्त्र 6
विश्वे॑षां॒ ह्य॑ध्व॒राणा॒मनी॑कं चि॒त्रं के॒तुं जनि॑ता त्वा ज॒जान॑ । स आ य॑जस्व नृ॒वती॒रनु॒ क्षा स्पा॒र्हा इष॑: क्षु॒मती॑र्वि॒श्वज॑न्याः ॥
स्वर सहित पद पाठविश्वे॑षाम् । हि । अ॒ध्व॒राणा॑म् । अनी॑कम् । चि॒त्रम् । के॒तुम् । जनि॑ता । त्वा॒ । ज॒जान॑ । सः । आ । य॒ज॒स्व॒ । नृ॒ऽवतीः॑ । अनु॑ । क्षाः । स्पा॒र्हाः । इषः॑ । क्षु॒ऽमतीः॑ । वि॒स्वऽज॑न्याः ॥
स्वर रहित मन्त्र
विश्वेषां ह्यध्वराणामनीकं चित्रं केतुं जनिता त्वा जजान । स आ यजस्व नृवतीरनु क्षा स्पार्हा इष: क्षुमतीर्विश्वजन्याः ॥
स्वर रहित पद पाठविश्वेषाम् । हि । अध्वराणाम् । अनीकम् । चित्रम् । केतुम् । जनिता । त्वा । जजान । सः । आ । यजस्व । नृऽवतीः । अनु । क्षाः । स्पार्हाः । इषः । क्षुऽमतीः । विस्वऽजन्याः ॥ १०.२.६
ऋग्वेद - मण्डल » 10; सूक्त » 2; मन्त्र » 6
अष्टक » 7; अध्याय » 5; वर्ग » 30; मन्त्र » 6
अष्टक » 7; अध्याय » 5; वर्ग » 30; मन्त्र » 6
पदार्थः -
(विश्वेषाम्-अध्वराणां हि) सर्वेषां खल्वध्वानि रममाणानाम्, अध्वनि रमते-इति ‘डः’ प्रत्ययः “सप्तम्यां जनेर्डः” [अष्टा० ३।२।९७] “अन्येभ्योऽपि दृश्यते” [वा० अष्टा० ३।२।१०१] यद्वा-अध्ववतां ग्रहाणाम्-अध्वशब्दात् र प्रत्ययो मत्वर्थीयश्छान्दसः (अनीकम्) मुखं प्रमुखं यथा सेनायाः सेनानीरनीकं भवति “सेनायाः सेनानीरनीकम्” [श० ५।३।८।१] (चित्रम्) चायनीयम्-दर्शनीयम् (केतुम्) दर्शकं सूर्यम् (त्वा जनिता जजान) त्वां सूर्यं जनयिता परमात्मा उत्पादितवान् (सः-आ) त्वं सूर्यः (नृवतीः क्षाः) मनुष्यादिप्रजावतीः “प्रजा वै नरः” [ऐ० २।४] पृथिवीः, तथा (स्पार्हाः क्षुमतीः-विश्वजन्याः-इषः-यजस्व) स्पृहणीया अन्नवतीः सर्वप्राणिजननयोग्याः-वृष्टीः “वृष्ट्यै तदाह यदाहेषे” [श० १४।२।२।१७] सङ्गमय ॥६॥