ऋग्वेद - मण्डल 10/ सूक्त 2/ मन्त्र 7
यं त्वा॒ द्यावा॑पृथि॒वी यं त्वाप॒स्त्वष्टा॒ यं त्वा॑ सु॒जनि॑मा ज॒जान॑ । पन्था॒मनु॑ प्रवि॒द्वान्पि॑तृ॒याणं॑ द्यु॒मद॑ग्ने समिधा॒नो वि भा॑हि ॥
स्वर सहित पद पाठयम् । त्वा॒ । द्यावा॑पृथि॒वी इति॑ । यम् । त्वा॒ । आपः॑ । त्वष्टा॑ । यम् । त्वा॒ । सु॒ऽजमि॑मा । ज॒जान॑ । पन्था॑म् । अनु॑ । प्र॒ऽवि॒द्वान् । पि॒तृ॒ऽयान॑म् । द्यु॒ऽमत् । अ॒ग्ने॒ । स॒म्ऽइ॒धा॒नः । वि । भा॒हि॒ ॥
स्वर रहित मन्त्र
यं त्वा द्यावापृथिवी यं त्वापस्त्वष्टा यं त्वा सुजनिमा जजान । पन्थामनु प्रविद्वान्पितृयाणं द्युमदग्ने समिधानो वि भाहि ॥
स्वर रहित पद पाठयम् । त्वा । द्यावापृथिवी इति । यम् । त्वा । आपः । त्वष्टा । यम् । त्वा । सुऽजमिमा । जजान । पन्थाम् । अनु । प्रऽविद्वान् । पितृऽयानम् । द्युऽमत् । अग्ने । सम्ऽइधानः । वि । भाहि ॥ १०.२.७
ऋग्वेद - मण्डल » 10; सूक्त » 2; मन्त्र » 7
अष्टक » 7; अध्याय » 5; वर्ग » 30; मन्त्र » 7
अष्टक » 7; अध्याय » 5; वर्ग » 30; मन्त्र » 7
पदार्थः -
(यं त्वा) यं बृहन्तमग्निं लोकत्रये वर्तमानं सूर्यम्-अग्निं विद्युतं च (द्यावापृथिवी) द्युलोकः सूर्यरूपेण पृथिवीलोकोऽग्निरूपेण (यं त्वा) यं त्वाम् (आपः) अन्तरिक्षं विद्युद्रूपेण “आपोऽन्तरिक्षनाम” [निघं० १।३] (यं त्वा) यं त्वाम् (सुजनिमा त्वष्टा) शोभनं सुगमतया वा जनिमानि जन्मानि भवन्ति यतः-यद्वा सुगमतयाऽनायासेन जनयति यः सः तूर्णमश्नुवानः परमात्मा “त्वष्टा तूर्णमश्नुते” [निरु० ८।१४] (जजान) सर्वरूपेण जनयति (पितृयाणं पन्थाम्-अनु प्र विद्वान्) पितुः संवत्सरस्य यानं गमनस्थानं प्रवेशो यस्मिन् तं “संवत्सरो वै पिता” [श० १।५।१।१] पन्थानं प्रज्ञायते येन तथा भूतस्त्वमग्ने बृहन्नग्ने (द्युमत्-समिधानः-विभाहि) दीप्तिं समिधानः प्रज्वलन्-प्रकाशमानः सन् विशेषेण प्रकाशितो भव ॥७॥