Loading...
ऋग्वेद मण्डल - 10 के सूक्त 23 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 23/ मन्त्र 2
    ऋषिः - विमद ऐन्द्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः देवता - इन्द्र: छन्दः - भुरिगार्चीजगती स्वरः - निषादः

    हरी॒ न्व॑स्य॒ या वने॑ वि॒दे वस्विन्द्रो॑ म॒घैर्म॒घवा॑ वृत्र॒हा भु॑वत् । ऋ॒भुर्वाज॑ ऋभु॒क्षाः प॑त्यते॒ शवोऽव॑ क्ष्णौमि॒ दास॑स्य॒ नाम॑ चित् ॥

    स्वर सहित पद पाठ

    हरी॒ इति॑ । नु । अ॒स्य॒ । या । वने॑ । वि॒दे । वसु॑ । इन्द्रः॑ । म॒घैः । म॒घऽवा॑ । वृ॒त्र॒ऽहा । भु॒व॒त् । ऋ॒भुः । वाजः॑ । ऋ॒भु॒क्षाः । प॒त्य॒ते॒ । शवः॑ । अव॑ । क्ष्णौ॒मि॒ । दास॑स्य । नाम॑ । चि॒त् ॥


    स्वर रहित मन्त्र

    हरी न्वस्य या वने विदे वस्विन्द्रो मघैर्मघवा वृत्रहा भुवत् । ऋभुर्वाज ऋभुक्षाः पत्यते शवोऽव क्ष्णौमि दासस्य नाम चित् ॥

    स्वर रहित पद पाठ

    हरी इति । नु । अस्य । या । वने । विदे । वसु । इन्द्रः । मघैः । मघऽवा । वृत्रऽहा । भुवत् । ऋभुः । वाजः । ऋभुक्षाः । पत्यते । शवः । अव । क्ष्णौमि । दासस्य । नाम । चित् ॥ १०.२३.२

    ऋग्वेद - मण्डल » 10; सूक्त » 23; मन्त्र » 2
    अष्टक » 7; अध्याय » 7; वर्ग » 9; मन्त्र » 2

    पदार्थः -
    (अस्य या हरी नु वसु विदे) अस्य राज्ञो यौ दुःखापहर्त्ता सुखाहर्त्ता च सभाविभागः सेनाविभागश्च धनं वेदयेते (मघैः-मघवा-इन्द्रः) धनैर्धनवान् भवति स राजा (वृत्रहा भुवत्) शत्रुहन्ता भवति (ऋभुः-वाजः-ऋभुक्षाः) मेधावी “ऋभुर्मेधावी” [निघ० ३।१५] बलवान् तथा महान् “ऋभुक्षाः-महन्नाम” [निघं० ३।३] (पत्यते) स्वामित्वं करोति “पत्यते ऐश्वर्यकर्मा” [निघं० २।२१] (दासस्य शवः-नाम चित्-अवक्ष्णौमि) योऽस्मान् दासयति क्षिणोति तस्य बलं नामापि नाशयति “पुरुषव्यत्ययश्छान्दसः ॥२॥

    इस भाष्य को एडिट करें
    Top