ऋग्वेद - मण्डल 10/ सूक्त 23/ मन्त्र 3
ऋषिः - विमद ऐन्द्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः
देवता - इन्द्र:
छन्दः - निचृज्जगती
स्वरः - निषादः
य॒दा वज्रं॒ हिर॑ण्य॒मिदथा॒ रथं॒ हरी॒ यम॑स्य॒ वह॑तो॒ वि सू॒रिभि॑: । आ ति॑ष्ठति म॒घवा॒ सन॑श्रुत॒ इन्द्रो॒ वाज॑स्य दी॒र्घश्र॑वस॒स्पति॑: ॥
स्वर सहित पद पाठय॒दा । वज्र॑म् । हिर॑ण्यम् । इत् । अथ॑ । रथ॑म् । हरी॒ इति॑ । यम् । अ॒स्य॒ । वह॑तः । वि । सू॒रिऽभिः॑ । आ । ति॒ष्ठ॒ति॒ । म॒घऽवा॑ । सन॑ऽश्रुतः । इन्द्रः॑ । वाज॑स्य । दी॒र्घऽश्र॑वसः । पतिः॑ ॥
स्वर रहित मन्त्र
यदा वज्रं हिरण्यमिदथा रथं हरी यमस्य वहतो वि सूरिभि: । आ तिष्ठति मघवा सनश्रुत इन्द्रो वाजस्य दीर्घश्रवसस्पति: ॥
स्वर रहित पद पाठयदा । वज्रम् । हिरण्यम् । इत् । अथ । रथम् । हरी इति । यम् । अस्य । वहतः । वि । सूरिऽभिः । आ । तिष्ठति । मघऽवा । सनऽश्रुतः । इन्द्रः । वाजस्य । दीर्घऽश्रवसः । पतिः ॥ १०.२३.३
ऋग्वेद - मण्डल » 10; सूक्त » 23; मन्त्र » 3
अष्टक » 7; अध्याय » 7; वर्ग » 9; मन्त्र » 3
अष्टक » 7; अध्याय » 7; वर्ग » 9; मन्त्र » 3
पदार्थः -
(यदा) यस्मिन् काले (इन्द्रः) राजा-शासकः (सूरिभिः) विद्वद्भिः सह (वज्रं हिरण्यं यं रथम्-इत्) ओजोरूपं सर्वहितरमणीयं स्वरमणीयं राष्ट्रं-राष्ट्रशासनस्थानं खलु (वि-आ तिष्ठति) विराजते स्वाधीने चालयति च तदा (अस्य हरी वहतः) सभासेनाविभागौ राष्ट्रं वहतः (मघवा) राजसूययज्ञवान् राजा “यज्ञेन मघवान्” [तै० सं० ४।४।८।१] (सनश्रुतः दीर्घश्रवसः-वाजस्य पतिः) परम्परातः प्रसिद्धस्य दीर्घकालकीर्त्तिप्रदस्य भौगेश्वर्यस्य पतिर्भवति ॥३॥