ऋग्वेद - मण्डल 10/ सूक्त 23/ मन्त्र 7
ऋषिः - विमद ऐन्द्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
माकि॑र्न ए॒ना स॒ख्या वि यौ॑षु॒स्तव॑ चेन्द्र विम॒दस्य॑ च॒ ऋषे॑: । वि॒द्मा हि ते॒ प्रम॑तिं देव जामि॒वद॒स्मे ते॑ सन्तु स॒ख्या शि॒वानि॑ ॥
स्वर सहित पद पाठमाकिः॑ । नः॒ । ए॒ना । स॒ख्या । वि । यौ॒षुः॒ । तव॑ । च॒ । इ॒न्द्र॒ । वि॒ऽम॒दस्य॑ । च॒ । ऋषेः॑ । वि॒द्म । हि । ते॒ । प्रऽम॑तिम् । दे॒व॒ । जा॒मि॒ऽवत् । अ॒स्मे इति॑ । ते॒ । स॒न्तु॒ । स॒ख्या । शि॒वानि॑ ॥
स्वर रहित मन्त्र
माकिर्न एना सख्या वि यौषुस्तव चेन्द्र विमदस्य च ऋषे: । विद्मा हि ते प्रमतिं देव जामिवदस्मे ते सन्तु सख्या शिवानि ॥
स्वर रहित पद पाठमाकिः । नः । एना । सख्या । वि । यौषुः । तव । च । इन्द्र । विऽमदस्य । च । ऋषेः । विद्म । हि । ते । प्रऽमतिम् । देव । जामिऽवत् । अस्मे इति । ते । सन्तु । सख्या । शिवानि ॥ १०.२३.७
ऋग्वेद - मण्डल » 10; सूक्त » 23; मन्त्र » 7
अष्टक » 7; अध्याय » 7; वर्ग » 9; मन्त्र » 7
अष्टक » 7; अध्याय » 7; वर्ग » 9; मन्त्र » 7
पदार्थः -
(इन्द्र) हे राजन् ! (तव विमदस्य-ऋषेः-च) तव तथा त्वदीयराष्ट्रे विशिष्टहर्षयितुस्त्वां प्राप्तस्य प्रजागणस्य (एना सख्या) एतानि सखित्वानि खलूभयहितकराणि (माकिः-न वियौषुः) न कदाचिद् वियुज्येरन्-न शिथिलानि भवेयुः (देव) हे सुखदातः ! राजन् ! (ते प्रमतिं विद्म हि) तव प्रकृष्टां राज्यशासनमतिं प्रजापालनपरायणां मतिं वयं प्रजाजना जानीमः (अस्मे) अस्मभ्यम् (ते) तुभ्यं च (सख्या शिवानि) समानराज्यशासकशास्यसम्बन्धिकर्माणि कल्याणकराणि (जामिवत् सन्तु) वंश्यानि शाश्वतिकानि स्थिराणि भवन्तु ॥७॥