ऋग्वेद - मण्डल 10/ सूक्त 23/ मन्त्र 6
ऋषिः - विमद ऐन्द्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः
देवता - इन्द्र:
छन्दः - स्वराडार्चीजगती
स्वरः - निषादः
स्तोमं॑ त इन्द्र विम॒दा अ॑जीजन॒न्नपू॑र्व्यं पुरु॒तमं॑ सु॒दान॑वे । वि॒द्मा ह्य॑स्य॒ भोज॑नमि॒नस्य॒ यदा प॒शुं न गो॒पाः क॑रामहे ॥
स्वर सहित पद पाठस्तोम॑म् । ते॒ । इ॒न्द्र॒ । वि॒ऽम॒दाः । अ॒जी॒ज॒न॒न् । अपू॑र्व्यम् । पु॒रु॒ऽतम॑म् । सु॒ऽदान॑वे । वि॒द्म । हि । अ॒स्य॒ । भोज॑नम् । इ॒नस्य॑ । यत् । आ । प॒शुम् । न । गो॒पाः । क॒रा॒म॒हे॒ ॥
स्वर रहित मन्त्र
स्तोमं त इन्द्र विमदा अजीजनन्नपूर्व्यं पुरुतमं सुदानवे । विद्मा ह्यस्य भोजनमिनस्य यदा पशुं न गोपाः करामहे ॥
स्वर रहित पद पाठस्तोमम् । ते । इन्द्र । विऽमदाः । अजीजनन् । अपूर्व्यम् । पुरुऽतमम् । सुऽदानवे । विद्म । हि । अस्य । भोजनम् । इनस्य । यत् । आ । पशुम् । न । गोपाः । करामहे ॥ १०.२३.६
ऋग्वेद - मण्डल » 10; सूक्त » 23; मन्त्र » 6
अष्टक » 7; अध्याय » 7; वर्ग » 9; मन्त्र » 6
अष्टक » 7; अध्याय » 7; वर्ग » 9; मन्त्र » 6
पदार्थः -
(इन्द्र) हे राजन् ! (ते सुदानवे) तुभ्यं शोभनसुखदात्रे (विमदाः) तव राष्ट्रे विशिष्टहर्षप्राप्ताः प्रजाजनाः (पुरुतमम्-अपूर्व्यं स्तोमम्-अजीजनन्) बहुप्रकारं श्रेष्ठमन्नं “अन्नं वै स्तोमः” [मै० ३।४।२] शुल्करूपं समपादयन्-सम्पादितवन्तस्ते खलु वयं स्मः, यतः (अस्य-इनस्य भोजनं विद्म हि) अस्य तव स्वामिभूतस्य शासकस्य पालनं वयं जानीमः (यत् पशुं न गोपाः-आकरामहे) यतो दुग्धदातारं पशुं प्रति दुग्धप्रतिदाननिमित्तं तदाहारदानेन तं गोपाला यथा सत्कुर्वन्ति तद्वत्त्वां वयं सत्कुर्मः ॥६॥