Loading...
ऋग्वेद मण्डल - 10 के सूक्त 27 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 27/ मन्त्र 3
    ऋषिः - वसुक्र ऐन्द्रः देवता - इन्द्र: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    नाहं तं वे॑द॒ य इति॒ ब्रवी॒त्यदे॑वयून्त्स॒मर॑णे जघ॒न्वान् । य॒दावाख्य॑त्स॒मर॑ण॒मृघा॑व॒दादिद्ध॑ मे वृष॒भा प्र ब्रु॑वन्ति ॥

    स्वर सहित पद पाठ

    न । अ॒हम् । तम् । वे॒द॒ । यः । इति॑ । ब्रवी॑ति । अदे॑वऽयून् । स॒म्ऽअर॑णे । ज॒घ॒न्वान् । य॒दा । अ॒व॒ऽअख्य॑त् । स॒म्ऽअर॑णम् । ऋघा॑वत् । आत् । इत् । ह॒ । मे॒ । वृ॒ष॒भा । प्र । ब्रु॒व॒न्ति॒ ॥


    स्वर रहित मन्त्र

    नाहं तं वेद य इति ब्रवीत्यदेवयून्त्समरणे जघन्वान् । यदावाख्यत्समरणमृघावदादिद्ध मे वृषभा प्र ब्रुवन्ति ॥

    स्वर रहित पद पाठ

    न । अहम् । तम् । वेद । यः । इति । ब्रवीति । अदेवऽयून् । सम्ऽअरणे । जघन्वान् । यदा । अवऽअख्यत् । सम्ऽअरणम् । ऋघावत् । आत् । इत् । ह । मे । वृषभा । प्र । ब्रुवन्ति ॥ १०.२७.३

    ऋग्वेद - मण्डल » 10; सूक्त » 27; मन्त्र » 3
    अष्टक » 7; अध्याय » 7; वर्ग » 15; मन्त्र » 3

    पदार्थः -
    (अदेवयून् समरणे जघन्वान्) मां देवं न मन्यमानान् संग्रामे हन्मि (इति यः-ब्रवीति) एवं यो ब्रवीति घोषयति (तम् न अहं वेद) न खलु-अहमित्थं वेद्मि जानामि-मन्ये, मया विना न कोपि इत्थं वक्तुमर्हति मम साहाय्येनैव हन्तुमर्हति (यदा समरणे-अवाख्यत्) यदा संग्रामे साक्षात् पश्यति स्वाभ्यन्तरे (ऋघावत्-आत्-इत्-ह) परस्परं देवासुरवृत्तयः सत्यासत्यविवेचिका मतयो विद्यन्ते यस्मिन् स ऋघावान्-तद्वत् “ऋघाः सत्यासत्यविवेचिका मतयो विद्यन्ते यस्मिन् सः ॠन् शत्रून् घ्नन्ति यस्मिन् हन् धातोर्वर्णव्यत्ययेन हस्य घ नलोपश्च” [ऋ० १।१५२।२।दयानन्दः] अनन्तरं हि (मे वृषभा प्र ब्रुवन्ति) तदा मम बलवन्ति कर्माणि स्वाभ्यन्तरे प्रशंसन्ति ॥३॥

    इस भाष्य को एडिट करें
    Top