Loading...
ऋग्वेद मण्डल - 10 के सूक्त 27 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 27/ मन्त्र 2
    ऋषिः - वसुक्र ऐन्द्रः देवता - इन्द्र: छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    यदीद॒हं यु॒धये॑ सं॒नया॒न्यदे॑वयून्त॒न्वा॒३॒॑ शूशु॑जानान् । अ॒मा ते॒ तुम्रं॑ वृष॒भं प॑चानि ती॒व्रं सु॒तं प॑ञ्चद॒शं नि षि॑ञ्चम् ॥

    स्वर सहित पद पाठ

    यदि॑ । इत् । अ॒हम् । यु॒धये॑ । स॒म्ऽनया॑नि । अदे॑वऽयून् । त॒न्वा॑ । शूशु॑जानान् । अ॒मा । ते॒ । तुम्र॑म् । वृ॒ष॒भम् । प॒चा॒नि॒ । ती॒व्रम् । सु॒तम् । प॒ञ्च॒ऽद॒शम् । नि । सि॒ञ्च॒म् ॥


    स्वर रहित मन्त्र

    यदीदहं युधये संनयान्यदेवयून्तन्वा३ शूशुजानान् । अमा ते तुम्रं वृषभं पचानि तीव्रं सुतं पञ्चदशं नि षिञ्चम् ॥

    स्वर रहित पद पाठ

    यदि । इत् । अहम् । युधये । सम्ऽनयानि । अदेवऽयून् । तन्वा । शूशुजानान् । अमा । ते । तुम्रम् । वृषभम् । पचानि । तीव्रम् । सुतम् । पञ्चऽदशम् । नि । सिञ्चम् ॥ १०.२७.२

    ऋग्वेद - मण्डल » 10; सूक्त » 27; मन्त्र » 2
    अष्टक » 7; अध्याय » 7; वर्ग » 15; मन्त्र » 2

    पदार्थः -
    (ते-अमा) हे इन्द्र-ऐश्वर्यवन् परमात्मन् ! तव साहाय्येन (यदि-इत्-अहम् युधये) यदि ह्यहमुपासको युद्धाय खलूद्यतो भवेयम् (तन्वा शूशुजानान्) शरीरेण शूशुचानान् जाज्वल्यमानान् ‘चकारस्थाने जकारश्छान्दसः’ (अदेवयून्) ये त्वां स्वदेवं परमात्मानं न मन्यन्ते तथाभूतान् नास्तिकान् (सम् नयानि) सम्प्रभावयामि त्वदुपासकान्-आस्तिकान् सम्पादयामि (तुम्रं वृषभं पचानि) आहन्तारम् “तुम्रः आहन्ता” [ऋ० ३।५०।१ दयानन्दः] वृषभमिव पापं भक्षयामि-नाशयामि (तीव्रं सुतम्-पञ्चदशं नि षिञ्चम्) प्रबलं निष्पन्नमोजः “ओजो वै पञ्चदशः” [मै० ३।२।१०] निजे मनसि यद्वा-आत्मनि निषिञ्चामि-निधारयामि ॥२॥

    इस भाष्य को एडिट करें
    Top