Loading...
ऋग्वेद मण्डल - 10 के सूक्त 27 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 27/ मन्त्र 5
    ऋषिः - वसुक्र ऐन्द्रः देवता - इन्द्र: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    न वा उ॒ मां वृ॒जने॑ वारयन्ते॒ न पर्व॑तासो॒ यद॒हं म॑न॒स्ये । मम॑ स्व॒नात्कृ॑धु॒कर्णो॑ भयात ए॒वेदनु॒ द्यून्कि॒रण॒: समे॑जात् ॥

    स्वर सहित पद पाठ

    न । वै । ऊँ॒ इति॑ । माम् । वृ॒जने॑ । वा॒र॒य॒न्ते॒ । न । पर्व॑तासः । यत् । अ॒हम् । म॒न॒स्ये । मम॑ । स्व॒नात् । कृ॒धु॒ऽकर्णः॑ । भ॒या॒ते॒ । ए॒व । इत् । अनु॑ । द्यून् । कि॒रणः॑ । सम् । ए॒जा॒त् ॥


    स्वर रहित मन्त्र

    न वा उ मां वृजने वारयन्ते न पर्वतासो यदहं मनस्ये । मम स्वनात्कृधुकर्णो भयात एवेदनु द्यून्किरण: समेजात् ॥

    स्वर रहित पद पाठ

    न । वै । ऊँ इति । माम् । वृजने । वारयन्ते । न । पर्वतासः । यत् । अहम् । मनस्ये । मम । स्वनात् । कृधुऽकर्णः । भयाते । एव । इत् । अनु । द्यून् । किरणः । सम् । एजात् ॥ १०.२७.५

    ऋग्वेद - मण्डल » 10; सूक्त » 27; मन्त्र » 5
    अष्टक » 7; अध्याय » 7; वर्ग » 15; मन्त्र » 5

    पदार्थः -
    (न वा-उ) नैव (वृजने) बलप्रसङ्गे (मां वारयन्ते) मां केचिदपि निवारयन्ते  बलप्रदर्शनान्निवृत्तं कर्त्तुं शक्नुवन्ति (यत्-अहं मनस्ये) यत् खल्वहं कर्त्तुमिच्छामि तस्मात् (पर्वतासः न) पर्वताः पर्वतसदृशा बलवन्तो नावरोद्धुं समर्थाः (मम स्वनात्) मम-आदेशाच्छासनात् (कृधुकर्णः भयाते एव इत्) अल्पकर्णः अल्पेन्द्रियशक्तिकः पापिजनः “कृध्विति ह्रस्वनाम” [निरु० ६।३] बिभेति (किरणः अनुद्यून् समेजात्) किरणवान् सूर्यः “अकारो मत्वर्थीयोऽत्र” सर्वदिनानि प्रति “द्युः अहर्नाम” [निघं० १।९] सम्यक् स्वगतिं करोति स्वकार्यं करोति प्रकाशते ॥५॥

    इस भाष्य को एडिट करें
    Top