ऋग्वेद - मण्डल 10/ सूक्त 27/ मन्त्र 6
ऋषिः - वसुक्र ऐन्द्रः
देवता - इन्द्र:
छन्दः - पादनिचृत्त्रिष्टुप्
स्वरः - धैवतः
दर्श॒न्न्वत्र॑ शृत॒पाँ अ॑नि॒न्द्रान्बा॑हु॒क्षद॒: शर॑वे॒ पत्य॑मानान् । घृषुं॑ वा॒ ये नि॑नि॒दुः सखा॑य॒मध्यू॒ न्वे॑षु प॒वयो॑ ववृत्युः ॥
स्वर सहित पद पाठदर्श॑न् । नु । अत्र॑ । शृ॒त॒ऽपान् । अ॒नि॒न्द्रान् । बा॒हु॒ऽक्षदः॑ । शर॑वे । पत्य॑मानान् । घृषु॑म् । वा॒ । ये । नि॒नि॒दुः । सखा॑यम् । अधि॑ । ऊँ॒ इति॑ । नु । ए॒षु॒ । प॒वयः॑ । व॒वृ॒त्युः॒ ॥
स्वर रहित मन्त्र
दर्शन्न्वत्र शृतपाँ अनिन्द्रान्बाहुक्षद: शरवे पत्यमानान् । घृषुं वा ये निनिदुः सखायमध्यू न्वेषु पवयो ववृत्युः ॥
स्वर रहित पद पाठदर्शन् । नु । अत्र । शृतऽपान् । अनिन्द्रान् । बाहुऽक्षदः । शरवे । पत्यमानान् । घृषुम् । वा । ये । निनिदुः । सखायम् । अधि । ऊँ इति । नु । एषु । पवयः । ववृत्युः ॥ १०.२७.६
ऋग्वेद - मण्डल » 10; सूक्त » 27; मन्त्र » 6
अष्टक » 7; अध्याय » 7; वर्ग » 16; मन्त्र » 1
अष्टक » 7; अध्याय » 7; वर्ग » 16; मन्त्र » 1
पदार्थः -
(अत्र) अस्मिन् बलप्रयोगप्रसङ्गे (शरवे पत्यमानान्) हिंसकशस्त्रक्षेपणहेतवे प्रयतमानान्-आक्रमणकारिणः (अनिन्द्रान्) इन्द्रं माममन्यमानान् नास्तिकान् (शृतपान्) अन्येषां पक्वानि परिपुष्टानि मांसरक्तादीनि ये पिबन्ति-भक्षयन्ति तान् “शृतं पाके” [अष्टा० ६।१।२७] (दर्शम्) पश्यामि (वा) अथ च (घृषुं सखायम्) तैर्नास्तिकैर्दुष्टैः सह संघर्षयितारं सखायमास्तिकं जनं चापि पश्यामि (ये निनिदुः) ये मां निन्दन्ति-न स्तुवन्ति-कृतघ्नतां कुर्वन्ति (एषु) एतेषु (उ नु) अवश्यं क्षिप्रम् (पवयः-ववृत्युः) मम वज्रा “पविः वज्रनाम” [निघ० २।२०] वर्त्तन्ते-प्रवर्त्तन्ते पतन्ति ॥६॥