ऋग्वेद - मण्डल 10/ सूक्त 27/ मन्त्र 8
गावो॒ यवं॒ प्रयु॑ता अ॒र्यो अ॑क्ष॒न्ता अ॑पश्यं स॒हगो॑पा॒श्चर॑न्तीः । हवा॒ इद॒र्यो अ॒भित॒: समा॑य॒न्किय॑दासु॒ स्वप॑तिश्छन्दयाते ॥
स्वर सहित पद पाठगाव॑ । यव॑म् । प्रऽयु॑ताः । अ॒र्यः । अ॒क्ष॒न् । ताः । अ॒प॒श्य॒म् । स॒हऽगो॑पाः । चर॑न्तीः । हवाः॑ । इत् । अ॒र्यः । अ॒भितः॑ । सम् । आ॒य॒न् । किय॑त् । आ॒सु॒ । स्वऽप॑तिः । छ॒न्द॒या॒ते॒ ॥
स्वर रहित मन्त्र
गावो यवं प्रयुता अर्यो अक्षन्ता अपश्यं सहगोपाश्चरन्तीः । हवा इदर्यो अभित: समायन्कियदासु स्वपतिश्छन्दयाते ॥
स्वर रहित पद पाठगाव । यवम् । प्रऽयुताः । अर्यः । अक्षन् । ताः । अपश्यम् । सहऽगोपाः । चरन्तीः । हवाः । इत् । अर्यः । अभितः । सम् । आयन् । कियत् । आसु । स्वऽपतिः । छन्दयाते ॥ १०.२७.८
ऋग्वेद - मण्डल » 10; सूक्त » 27; मन्त्र » 8
अष्टक » 7; अध्याय » 7; वर्ग » 16; मन्त्र » 3
अष्टक » 7; अध्याय » 7; वर्ग » 16; मन्त्र » 3
पदार्थः -
(प्रयुताः गावः-यवम्-अक्षन्) प्रकृष्टभावेन मिश्रिता गावो धेनवो घासं खादन्ति (ताः सहगोपाः चरन्तीः अर्यः अपश्यम्) ता गोपालेन सह चरन्तीरहं स्वामी जगदीशः पश्यामि (हवाः इत् अर्यः अभितः-सम्-आयन्) ता ह्वानार्हा गावः-अयं स्वामिनं सर्वतः समागच्छन्ति (आसु कियत् स्वपतिः-छन्दयाते) आसु गोषु स्वपतिर्गोपतिः कियत् कतिविधं स्नेहकार्यं भावयति, इति तद्वदहमर्यः परमात्मा स्वस्तोतॄन् स्नेहेन गोपरूपेण सम्मेलनं भुञ्जानान् पश्यामि ते स्तोतारोऽपि मां स्वामिनमाश्रिता भवन्ति-इत्यपि खल्वहं रक्षणं ददामि ॥८॥