ऋग्वेद - मण्डल 10/ सूक्त 27/ मन्त्र 7
ऋषिः - वसुक्र ऐन्द्रः
देवता - इन्द्र:
छन्दः - पादनिचृत्त्रिष्टुप्
स्वरः - धैवतः
अभू॒र्वौक्षी॒र्व्यु१॒॑ आयु॑रान॒ड्दर्ष॒न्नु पूर्वो॒ अप॑रो॒ नु द॑र्षत् । द्वे प॒वस्ते॒ परि॒ तं न भू॑तो॒ यो अ॒स्य पा॒रे रज॑सो वि॒वेष॑ ॥
स्वर सहित पद पाठअभूः॑ । ऊँ॒ इति॑ । औक्षीः॑ । वि । ऊँ॒ इति॑ । आयुः॑ । आ॒न॒ट् । दर्ष॑त् । नु । पूर्वः॑ । अप॑रः । नु । द॒र्ष॒त् । द्वे इति॑ । प॒वस्ते॒ इति॑ । परि॑ । तम् । न । भू॒तः॒ । यः । अ॒स्य । पा॒रे । रज॑सः । वि॒वेष॑ ॥
स्वर रहित मन्त्र
अभूर्वौक्षीर्व्यु१ आयुरानड्दर्षन्नु पूर्वो अपरो नु दर्षत् । द्वे पवस्ते परि तं न भूतो यो अस्य पारे रजसो विवेष ॥
स्वर रहित पद पाठअभूः । ऊँ इति । औक्षीः । वि । ऊँ इति । आयुः । आनट् । दर्षत् । नु । पूर्वः । अपरः । नु । दर्षत् । द्वे इति । पवस्ते इति । परि । तम् । न । भूतः । यः । अस्य । पारे । रजसः । विवेष ॥ १०.२७.७
ऋग्वेद - मण्डल » 10; सूक्त » 27; मन्त्र » 7
अष्टक » 7; अध्याय » 7; वर्ग » 16; मन्त्र » 2
अष्टक » 7; अध्याय » 7; वर्ग » 16; मन्त्र » 2
पदार्थः -
(अभूः-उ औक्षीः) अनुत्पन्नपरमात्मन् ! त्वमेव संसारबीजमव्यक्तं प्रकृत्याख्यं सिञ्चसि तथा (आयुः आनट्) आयुष्मन्तं जीवनवन्तं जीवनधारणस्वभावकमात्मानम्, ‘अत्र मतुब्लोपश्छान्दसः’ व्याप्नोषि, तत्र व्याप्तोऽसि, अतएव (दर्षत्-नु पूर्वः) त्वं पूर्वः प्रथमतः क्षिप्रं तत् संसारबीजमव्यक्तं दृणासि, छिन्नभिन्नं करोषि ‘पुरुषव्यत्ययः’ (अपरः-नु दर्षत्) अन्यस्तद्बीजं किमु तद्बीजं दृणाति-इति वितर्कः, नैवापरो दृणाति “नु वितर्के” [अव्ययार्थनिबन्धनम्] (यः अस्य रजसः पारे विवेष) अस्य संसारस्य तद्बीजस्य वा पारेऽपि व्याप्नोषि ‘पुरुषव्यत्ययः’ (तं द्वे पवस्ते न परिभूतः) तं त्वां परमात्मानं ये द्वे प्रापणशीले जडचेतनात्मके जीवप्रकृती न परिभवतः। त्वमेव ते उभे परिभवसि त्वमेव संसारबीजं विभक्तं करोषि, त्वमेव जीवनवन्तं व्याप्नोषि तत्र व्याप्य कर्मफलं प्रयच्छसि ॥७॥