ऋग्वेद - मण्डल 10/ सूक्त 3/ मन्त्र 4
अ॒स्य यामा॑सो बृह॒तो न व॒ग्नूनिन्धा॑ना अ॒ग्नेः सख्यु॑: शि॒वस्य॑ । ईड्य॑स्य॒ वृष्णो॑ बृह॒तः स्वासो॒ भामा॑सो॒ याम॑न्न॒क्तव॑श्चिकित्रे ॥
स्वर सहित पद पाठअ॒स्य । यामा॑सः । बृ॒ह॒तः । न । व॒ग्नून् । इन्धा॑नाः । अ॒ग्नेः । सख्युः॑ । शि॒वस्य॑ । ईड्य॑स्य । वृष्णः॑ । बृ॒ह॒तः । सु॒ऽआसः॑ । भामा॑सः । याम॑न् । अ॒क्तवः॑ । चि॒कि॒त्रे॒ ॥
स्वर रहित मन्त्र
अस्य यामासो बृहतो न वग्नूनिन्धाना अग्नेः सख्यु: शिवस्य । ईड्यस्य वृष्णो बृहतः स्वासो भामासो यामन्नक्तवश्चिकित्रे ॥
स्वर रहित पद पाठअस्य । यामासः । बृहतः । न । वग्नून् । इन्धानाः । अग्नेः । सख्युः । शिवस्य । ईड्यस्य । वृष्णः । बृहतः । सुऽआसः । भामासः । यामन् । अक्तवः । चिकित्रे ॥ १०.३.४
ऋग्वेद - मण्डल » 10; सूक्त » 3; मन्त्र » 4
अष्टक » 7; अध्याय » 5; वर्ग » 31; मन्त्र » 4
अष्टक » 7; अध्याय » 5; वर्ग » 31; मन्त्र » 4
पदार्थः -
(अस्य बृहतः-अग्नेः) अस्य खलु सूर्यस्य (यामासः) गमनशीलाः प्रकाशतरङ्गाः (सख्युः-शिवस्य वृष्णः-ईड्यस्य) सर्वमित्रस्य कल्याणकरस्य कामवर्षकस्य स्तुत्यस्य परमात्मनः (वग्नून्-इन्धानाः-न) स्तुतिवचनानि प्रकाशयन्तः-इव “वग्नु-वाङ्नाम” [निघं० १।११] प्रविभान्ति दृश्यन्ते वा (बृहतः-स्वासः-यामन् भामासः-अक्तवः-चिकित्रे) महतः शोभनमुखवतः शुभ्रस्वरूपस्य परमात्मनो मार्गे प्रकाशस्तम्भाः “भा-दीप्तौ” [अदादिः] ततो मन् प्रत्ययः, प्रकाशयन्तो दृश्यन्ते-ज्ञायन्ते ॥४॥