Loading...
ऋग्वेद मण्डल - 10 के सूक्त 3 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 3/ मन्त्र 5
    ऋषिः - त्रितः देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    स्व॒ना न यस्य॒ भामा॑स॒: पव॑न्ते॒ रोच॑मानस्य बृह॒तः सु॒दिव॑: । ज्येष्ठे॑भि॒र्यस्तेजि॑ष्ठैः क्रीळु॒मद्भि॒र्वर्षि॑ष्ठेभिर्भा॒नुभि॒र्नक्ष॑ति॒ द्याम् ॥

    स्वर सहित पद पाठ

    स्व॒नाः । न । यस्य॑ । भामा॑सः । पव॑न्ते । रोच॑मानस्य । बृ॒ह॒तः । सु॒ऽदिवः॑ । ज्येष्ठे॑भिः । यः । तेजि॑ष्ठैः । क्री॒ळु॒मत्ऽभिः॑ । वर्षि॑ष्ठेभिः । भा॒नुऽभिः॑ । नक्ष॑ति । द्याम् ॥


    स्वर रहित मन्त्र

    स्वना न यस्य भामास: पवन्ते रोचमानस्य बृहतः सुदिव: । ज्येष्ठेभिर्यस्तेजिष्ठैः क्रीळुमद्भिर्वर्षिष्ठेभिर्भानुभिर्नक्षति द्याम् ॥

    स्वर रहित पद पाठ

    स्वनाः । न । यस्य । भामासः । पवन्ते । रोचमानस्य । बृहतः । सुऽदिवः । ज्येष्ठेभिः । यः । तेजिष्ठैः । क्रीळुमत्ऽभिः । वर्षिष्ठेभिः । भानुऽभिः । नक्षति । द्याम् ॥ १०.३.५

    ऋग्वेद - मण्डल » 10; सूक्त » 3; मन्त्र » 5
    अष्टक » 7; अध्याय » 5; वर्ग » 31; मन्त्र » 5

    पदार्थः -
    (यस्य बृहतः-रोचमानस्य सुदिवः) यस्य महतः प्रकाशमानस्य शोभनद्युलोकवतः सूर्यस्य (भामासः) प्रकाशतरङ्गाः (स्वनाः-न पवन्ते) स्वनवन्तः शब्दवन्तः स्तुतिवचनवन्तः-इव स्वनः शब्दस्तद्वन्तः, अकारो मत्वर्थीयः, गच्छन्ति (यः) यश्च सूर्यः (ज्येष्ठेभिः) ज्येष्ठैः (तेजिष्ठैः) तेजस्वितमैः (क्रीडुमद्भिः) क्रीडावद्भिः (वर्षिष्ठेभिः) वृद्धतमैः (भानुभिः-द्यां नक्षति) स्वज्योतिधर्मैः द्युलोकमाप्नोति तं सर्वे विजानन्तु ॥५॥

    इस भाष्य को एडिट करें
    Top