ऋग्वेद - मण्डल 10/ सूक्त 30/ मन्त्र 12
ऋषिः - कवष ऐलूषः
देवता - आप अपान्नपाद्वा
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
आपो॑ रेवती॒: क्षय॑था॒ हि वस्व॒: क्रतुं॑ च भ॒द्रं बि॑भृ॒थामृतं॑ च । रा॒यश्च॒ स्थ स्व॑प॒त्यस्य॒ पत्नी॒: सर॑स्वती॒ तद्गृ॑ण॒ते वयो॑ धात् ॥
स्वर सहित पद पाठआ॒पः । रे॒व॒तीः॒ । क्षय॑थ । हि । वस्वः॑ । क्रतु॑म् । च॒ । भ॒द्रम् । बि॒भृ॒थाम् । ऋत॑म् । च॒ । रा॒यः । च॒ । स्थ । सु॒ऽअ॒प॒त्यस्य॑ । पत्नीः॑ । सर॑स्वती । तत् । गृ॒ण॒ते । वयः॑ । धा॒त् ॥
स्वर रहित मन्त्र
आपो रेवती: क्षयथा हि वस्व: क्रतुं च भद्रं बिभृथामृतं च । रायश्च स्थ स्वपत्यस्य पत्नी: सरस्वती तद्गृणते वयो धात् ॥
स्वर रहित पद पाठआपः । रेवतीः । क्षयथ । हि । वस्वः । क्रतुम् । च । भद्रम् । बिभृथाम् । ऋतम् । च । रायः । च । स्थ । सुऽअपत्यस्य । पत्नीः । सरस्वती । तत् । गृणते । वयः । धात् ॥ १०.३०.१२
ऋग्वेद - मण्डल » 10; सूक्त » 30; मन्त्र » 12
अष्टक » 7; अध्याय » 7; वर्ग » 26; मन्त्र » 2
अष्टक » 7; अध्याय » 7; वर्ग » 26; मन्त्र » 2
पदार्थः -
(रेवतीः-आपः-वस्वः, क्षयथ हि) हे श्रीमत्यः प्रजाः ! यूयं राष्ट्रधनस्य स्वामित्वं कुरुथ हि “क्षयति ऐश्वर्यकर्मा” [निघं० २।२१] (भद्रं क्रतुं च-अमृतं च बिभृथ) भजनीयमनुकूलं प्रज्ञानं सङ्कल्पं “क्रतुः प्रज्ञानाम” [निघं ३।९] मृतत्वरहितं मोक्षसुखमिव सुखञ्च धारयथ (रायः स्वपत्यस्य च पत्नीः स्थ) भोगधनस्य सुसन्तानस्य वीरसन्तानस्य पालयित्र्यः स्थ (सरस्वती तत्-वयः-गृणते धात्) युष्माकं परिषत् खलु ज्ञानवती सती युष्माकं प्रशासनं प्रवक्त्रे मह्यं राज्ञे प्राणं धारयति “प्राणो वै वयः” [ऐ० १।२८] ॥१२॥