Loading...
ऋग्वेद मण्डल - 10 के सूक्त 30 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 30/ मन्त्र 13
    ऋषिः - कवष ऐलूषः देवता - आप अपान्नपाद्वा छन्दः - त्रिष्टुप् स्वरः - धैवतः

    प्रति॒ यदापो॒ अदृ॑श्रमाय॒तीर्घृ॒तं पयां॑सि॒ बिभ्र॑ती॒र्मधू॑नि । अ॒ध्व॒र्युभि॒र्मन॑सा संविदा॒ना इन्द्रा॑य॒ सोमं॒ सुषु॑तं॒ भर॑न्तीः ॥

    स्वर सहित पद पाठ

    प्रति॑ । यत् । आपः॑ । अदृ॑श्रम् । आ॒ऽय॒तीः । घृ॒तम् । पयां॑सि । बिभ्र॑तीः । मधू॑नि । अ॒ध्व॒र्युऽभिः॑ । मन॑सा । स॒म्ऽवि॒दा॒नाः । इन्द्रा॑य । सोम॑म् । सुऽसु॑तम् । भर॑न्तीः ॥


    स्वर रहित मन्त्र

    प्रति यदापो अदृश्रमायतीर्घृतं पयांसि बिभ्रतीर्मधूनि । अध्वर्युभिर्मनसा संविदाना इन्द्राय सोमं सुषुतं भरन्तीः ॥

    स्वर रहित पद पाठ

    प्रति । यत् । आपः । अदृश्रम् । आऽयतीः । घृतम् । पयांसि । बिभ्रतीः । मधूनि । अध्वर्युऽभिः । मनसा । सम्ऽविदानाः । इन्द्राय । सोमम् । सुऽसुतम् । भरन्तीः ॥ १०.३०.१३

    ऋग्वेद - मण्डल » 10; सूक्त » 30; मन्त्र » 13
    अष्टक » 7; अध्याय » 7; वर्ग » 26; मन्त्र » 3

    पदार्थः -
    (आपः) हे प्रजाः !  (यत्) यदा (घृतं पयांसि मधूनि बिभ्रतीः आयतीः) राजसूययज्ञाय घृतं दुग्धमयानि वस्तूनि मधुराणि धारयन्तीरागच्छन्तीर्युष्मान् प्रति (अध्वर्युभिः-मनसा संविदानाः) राजसूययज्ञस्य नेतृभिर्विद्वद्भिः सभासद्भिः सह स्वमनसा खल्वैकमत्यं गता तदनुकूलीभूताः सतीः (इन्द्राय सुषुतं सोमं भरन्तीः) राज्ञे सुसम्पादितं सुसंस्कृतमुपहारं भरन्तीर्युष्मान् (प्रति-अदृश्रम्) अहं पुरोहितः पश्यामि तदा युष्मान् प्रशंसामीति शेषः ॥१३॥

    इस भाष्य को एडिट करें
    Top