ऋग्वेद - मण्डल 10/ सूक्त 30/ मन्त्र 15
ऋषिः - कवष ऐलूषः
देवता - आप अपान्नपाद्वा
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
आग्म॒न्नाप॑ उश॒तीर्ब॒र्हिरेदं न्य॑ध्व॒रे अ॑सदन्देव॒यन्ती॑: । अध्व॑र्यवः सुनु॒तेन्द्रा॑य॒ सोम॒मभू॑दु वः सु॒शका॑ देवय॒ज्या ॥
स्वर सहित पद पाठआ । अ॒ग्म॒न् । आपः॑ । उ॒श॒तीः । ब॒र्हिः । आ । इ॒दम् । नि । अ॒ध्व॒रे । अ॒स॒द॒न् । दे॒व॒ऽयन्तीः॑ । अध्व॑र्यवः । सु॒नु॒त । इन्द्रा॑य । सोम॑म् । अभू॑त् । ऊँ॒ इति॑ । वः॒ । सु॒ऽशका॑ । दे॒व॒ऽय॒ज्या ॥
स्वर रहित मन्त्र
आग्मन्नाप उशतीर्बर्हिरेदं न्यध्वरे असदन्देवयन्ती: । अध्वर्यवः सुनुतेन्द्राय सोममभूदु वः सुशका देवयज्या ॥
स्वर रहित पद पाठआ । अग्मन् । आपः । उशतीः । बर्हिः । आ । इदम् । नि । अध्वरे । असदन् । देवऽयन्तीः । अध्वर्यवः । सुनुत । इन्द्राय । सोमम् । अभूत् । ऊँ इति । वः । सुऽशका । देवऽयज्या ॥ १०.३०.१५
ऋग्वेद - मण्डल » 10; सूक्त » 30; मन्त्र » 15
अष्टक » 7; अध्याय » 7; वर्ग » 26; मन्त्र » 5
अष्टक » 7; अध्याय » 7; वर्ग » 26; मन्त्र » 5
पदार्थः -
(अध्वरे) राजसूययज्ञे (उशतीः-देवयन्तीः-आपः) सुखं कामयमानास्तथा सुखदातारं राजानं स्वोपरि शासनकर्त्तारमिच्छन्त्यः प्रजाः (आ-अग्मन्) आगच्छन्-आगच्छन्ति, अथ (इदं बर्हिः-नि-असदन्) इमं यज्ञमण्डपमुपाविशन्-उपविशन्ति (अध्वर्यवः) हे राजसूययज्ञस्य नेतारः ! यूयम् (इन्द्राय) राज्ञे (सोमं सुनुत) सोम्यं राजैश्वर्यपदं सम्पन्नं कुरुत (वः-देवयज्या सुशका-अभूत्) युष्माकं सुखदातू राज्ञ इष्टिः प्रजासहयोगेन सुगमतया कर्तुं शक्या सम्भवति ॥१५॥