Loading...
ऋग्वेद मण्डल - 10 के सूक्त 30 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 30/ मन्त्र 14
    ऋषिः - कवष ऐलूषः देवता - आप अपान्नपाद्वा छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    एमा अ॑ग्मन्रे॒वती॑र्जी॒वध॑न्या॒ अध्व॑र्यवः सा॒दय॑ता सखायः । नि ब॒र्हिषि॑ धत्तन सोम्यासो॒ऽपां नप्त्रा॑ संविदा॒नास॑ एनाः ॥

    स्वर सहित पद पाठ

    आ । इ॒माः । अ॒ग्म॒न् । रे॒वतीः॑ । जी॒वऽध॑न्याः । अध्व॑र्यवः । सा॒दय॑त । स॒खा॒यः॒ । नि । ब॒र्हिषि॑ । ध॒त्त॒न॒ । सो॒म्या॒सः॒ । अ॒पाम् । नप्त्रा॑ । स॒म्ऽवि॒दा॒नासः॑ । ए॒नाः॒ ॥


    स्वर रहित मन्त्र

    एमा अग्मन्रेवतीर्जीवधन्या अध्वर्यवः सादयता सखायः । नि बर्हिषि धत्तन सोम्यासोऽपां नप्त्रा संविदानास एनाः ॥

    स्वर रहित पद पाठ

    आ । इमाः । अग्मन् । रेवतीः । जीवऽधन्याः । अध्वर्यवः । सादयत । सखायः । नि । बर्हिषि । धत्तन । सोम्यासः । अपाम् । नप्त्रा । सम्ऽविदानासः । एनाः ॥ १०.३०.१४

    ऋग्वेद - मण्डल » 10; सूक्त » 30; मन्त्र » 14
    अष्टक » 7; अध्याय » 7; वर्ग » 26; मन्त्र » 4

    पदार्थः -
    (इमाः रेवतीः-जीवधन्याः-आ-अग्मन्) एताः श्रीमत्यः खलु जीवेषु धन्याः प्राणिषु पोषणधनाय हिताः “जीवधन्या जीवेषु धन्या धनाय हिताः” [ऋ० १।८०।४ दयानन्दः] प्रजाः खलु राजसूययज्ञमागच्छन्ति (अध्वर्यवः सखायः सादयत) हे राजसूययज्ञस्य नेतारो विद्वांसः ! यूयं ता उपवेशयत (बर्हिषि निधत्तन) राष्ट्रलोके नियोजयत “अयं लोको बर्हिः” [श० १।४।१।१४] (सोम्यासः) राज्यैश्वर्य-सम्पादिनोऽध्वर्यवः (अपां नप्त्रा संविदानासः-एनाः) यत एताः प्रजाः प्रजानां न पातयित्रा राज्ञा सहैकमत्यं गता यद्वा तेन सह मन्त्रणं कुर्वाणा वर्त्तन्ते तस्मात्ता उपवेशयत ॥१४॥

    इस भाष्य को एडिट करें
    Top