ऋग्वेद - मण्डल 10/ सूक्त 31/ मन्त्र 2
परि॑ चि॒न्मर्तो॒ द्रवि॑णं ममन्यादृ॒तस्य॑ प॒था नम॒सा वि॑वासेत् । उ॒त स्वेन॒ क्रतु॑ना॒ सं व॑देत॒ श्रेयां॑सं॒ दक्षं॒ मन॑सा जगृभ्यात् ॥
स्वर सहित पद पाठपरि॑ । चि॒त् । मर्तः॑ । द्रवि॑णम् । म॒म॒न्या॒त् । ऋ॒तस्य॑ । प॒था । न॒म॒सा । वि॒वा॒से॒त् । उ॒त । स्वेन॑ । क्रतु॑ना । सम् । व॒दे॒त॒ । श्रेयां॑सम् । दक्ष॑म् । मन॑सा । ज॒गृ॒भ्या॒त् ॥
स्वर रहित मन्त्र
परि चिन्मर्तो द्रविणं ममन्यादृतस्य पथा नमसा विवासेत् । उत स्वेन क्रतुना सं वदेत श्रेयांसं दक्षं मनसा जगृभ्यात् ॥
स्वर रहित पद पाठपरि । चित् । मर्तः । द्रविणम् । ममन्यात् । ऋतस्य । पथा । नमसा । विवासेत् । उत । स्वेन । क्रतुना । सम् । वदेत । श्रेयांसम् । दक्षम् । मनसा । जगृभ्यात् ॥ १०.३१.२
ऋग्वेद - मण्डल » 10; सूक्त » 31; मन्त्र » 2
अष्टक » 7; अध्याय » 7; वर्ग » 27; मन्त्र » 2
अष्टक » 7; अध्याय » 7; वर्ग » 27; मन्त्र » 2
पदार्थः -
(मर्तः द्रविणं परि चित्-ममन्यात्) मनुष्यो ज्ञानधनं सर्वतोऽपि कामयेत (ऋतस्य पथा मनसा विवासेत्) अमृतस्य-मोक्षस्य “ऋतममृतमित्याह” [जै०२।१६] मार्गेण स्वान्तःकरणेन श्रद्धया सेवेत (उत स्वेन क्रतुना संवदेत) अपि स्वकीयेन प्रज्ञानेन “क्रतुः प्रज्ञानाम” [निघं०३।९] विचारयेत् (श्रेयांसं दक्षं मनसा जगृभ्यात्) श्रेष्ठमात्मबलं मनसा-मनोभावेन गृह्णीयात् ॥२॥