Loading...
ऋग्वेद मण्डल - 10 के सूक्त 31 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 31/ मन्त्र 3
    ऋषिः - कवष ऐलूषः देवता - विश्वेदेवा: छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    अधा॑यि धी॒तिरस॑सृग्र॒मंशा॑स्ती॒र्थे न द॒स्ममुप॑ य॒न्त्यूमा॑: । अ॒भ्या॑नश्म सुवि॒तस्य॑ शू॒षं नवे॑दसो अ॒मृता॑नामभूम ॥

    स्वर सहित पद पाठ

    अधा॑यि । धी॒तिः । अस॑सृग्रम् । अंशाः॑ । ती॒र्थे । न । द॒स्मम् । उप॑ । य॒न्ति॒ । ऊमाः॑ । अ॒भि । आ॒न॒श्म॒ । सु॒वि॒तस्य॑ । शू॒षम् । नवे॑दसः । अ॒मृता॑नाम् । अ॒भू॒म॒ ॥


    स्वर रहित मन्त्र

    अधायि धीतिरससृग्रमंशास्तीर्थे न दस्ममुप यन्त्यूमा: । अभ्यानश्म सुवितस्य शूषं नवेदसो अमृतानामभूम ॥

    स्वर रहित पद पाठ

    अधायि । धीतिः । अससृग्रम् । अंशाः । तीर्थे । न । दस्मम् । उप । यन्ति । ऊमाः । अभि । आनश्म । सुवितस्य । शूषम् । नवेदसः । अमृतानाम् । अभूम ॥ १०.३१.३

    ऋग्वेद - मण्डल » 10; सूक्त » 31; मन्त्र » 3
    अष्टक » 7; अध्याय » 7; वर्ग » 27; मन्त्र » 3

    पदार्थः -
    (धीतिः-अधायि) योगप्रज्ञा “ऋतस्य धीतिः-ऋतस्य प्रज्ञा” [निरु०१०।४०] धारिता सम्पादिता भवति (न-अंशाः-ऊमाः) सम्प्रति तदा ध्यानप्रवाहाः-रक्षणकर्त्तारो भवन्तः (तीर्थे) संसारसागरस्य तारकनिमित्तम् “तीर्थेन हि तरन्ति तद्यथा समुद्रतीर्थेन प्रतरेयुः [गो०१।५।२] (अससृग्रं दस्मम्-उपयन्ति) अनुपममपूर्वमध्यात्मजन्म दर्शनीयमुपगमयन्ति “अत्रान्तर्गतो णिजर्थः”, (सुवितस्य शूषम्-अभ्यानश्म) सुगतस्य शोभनरूपस्य परमात्मनः सुखं प्राप्नुमः “शूषं सुखनाम” [निघ०३। ६] (नवेदसः-अमृतानाम्-अभूम) वयं नवेदसः-अवश्यं वेत्तारो वयं ज्ञानिनः “नभ्राण्नपान्नवेद………” [अष्टा० ६।३।७६] इति निपातनं न-अवेद मुक्तानां मध्ये भवेम॥३॥

    इस भाष्य को एडिट करें
    Top