Loading...
ऋग्वेद मण्डल - 10 के सूक्त 31 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 31/ मन्त्र 4
    ऋषिः - कवष ऐलूषः देवता - विश्वेदेवा: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    नित्य॑श्चाकन्या॒त्स्वप॑ति॒र्दमू॑ना॒ यस्मा॑ उ दे॒वः स॑वि॒ता ज॒जान॑ । भगो॑ वा॒ गोभि॑रर्य॒मेम॑नज्या॒त्सो अ॑स्मै॒ चारु॑श्छदयदु॒त स्या॑त् ॥

    स्वर सहित पद पाठ

    नित्यः॑ । चा॒क॒न्या॒त् । स्वऽप॑तिः । दमू॑नाः । यस्मै॑ । ऊँ॒ इति॑ । दे॒वः । स॒वि॒ता । ज॒जान॑ । भगः॑ । वा॒ । गोभिः॑ । अ॒र्य॒मा । ई॒म् । अ॒न॒ज्या॒त् । सः । अ॒स्मै॒ । चारुः॑ । छ॒द॒य॒त् । उ॒त । स्या॒त् ॥


    स्वर रहित मन्त्र

    नित्यश्चाकन्यात्स्वपतिर्दमूना यस्मा उ देवः सविता जजान । भगो वा गोभिरर्यमेमनज्यात्सो अस्मै चारुश्छदयदुत स्यात् ॥

    स्वर रहित पद पाठ

    नित्यः । चाकन्यात् । स्वऽपतिः । दमूनाः । यस्मै । ऊँ इति । देवः । सविता । जजान । भगः । वा । गोभिः । अर्यमा । ईम् । अनज्यात् । सः । अस्मै । चारुः । छदयत् । उत । स्यात् ॥ १०.३१.४

    ऋग्वेद - मण्डल » 10; सूक्त » 31; मन्त्र » 4
    अष्टक » 7; अध्याय » 7; वर्ग » 27; मन्त्र » 4

    पदार्थः -
    (नित्यः-स्वपतिः-दमूनाः) शाश्वतिकः सदा वर्त्तमानः सुखस्य स्वामी दानमनाः “दमूना दानमनाः” [निरु०४।५] (यस्मै-उ सविता देवः-जजान) यस्मै-उपासकाय स्वकर्मफलं दातुमुत्पादकः परमात्मदेवः-तत्कर्मफलमुत्पादयति (अर्यमा) स फलस्य दाता (चाकन्यात्) कामयेत् (ईम्-अनज्यात्) व्यक्तं करोति (सः-अस्मै) सोऽस्यै जनाय (चारुः-छदयत्) शोभनभूतो रक्षति (उत) अपि (गोभिः-वा भगः स्यात्) स्तुतिभिश्च भगप्रदो भवेत् ॥४॥

    इस भाष्य को एडिट करें
    Top