ऋग्वेद - मण्डल 10/ सूक्त 43/ मन्त्र 1
अच्छा॑ म॒ इन्द्रं॑ म॒तय॑: स्व॒र्विद॑: स॒ध्रीची॒र्विश्वा॑ उश॒तीर॑नूषत । परि॑ ष्वजन्ते॒ जन॑यो॒ यथा॒ पतिं॒ मर्यं॒ न शु॒न्ध्युं म॒घवा॑नमू॒तये॑ ॥
स्वर सहित पद पाठअच्छ॑ । मे॒ । इन्द्र॑म् । म॒तयः॑ । स्वः॒ऽविदः॑ । स॒ध्रीचीः॑ । विश्वाः॑ । उ॒श॒तीः । अ॒नू॒ष॒त॒ । परि॑ । स्व॒ज॒न्ते॒ । जन॑यः । यथा॑ । पति॑म् । मर्य॑म् । न । शु॒न्ध्युम् । म॒घऽवा॑नम् । ऊ॒तये॑ ॥
स्वर रहित मन्त्र
अच्छा म इन्द्रं मतय: स्वर्विद: सध्रीचीर्विश्वा उशतीरनूषत । परि ष्वजन्ते जनयो यथा पतिं मर्यं न शुन्ध्युं मघवानमूतये ॥
स्वर रहित पद पाठअच्छ । मे । इन्द्रम् । मतयः । स्वःऽविदः । सध्रीचीः । विश्वाः । उशतीः । अनूषत । परि । स्वजन्ते । जनयः । यथा । पतिम् । मर्यम् । न । शुन्ध्युम् । मघऽवानम् । ऊतये ॥ १०.४३.१
ऋग्वेद - मण्डल » 10; सूक्त » 43; मन्त्र » 1
अष्टक » 7; अध्याय » 8; वर्ग » 24; मन्त्र » 1
अष्टक » 7; अध्याय » 8; वर्ग » 24; मन्त्र » 1
विषयः - सूक्तेऽस्मिन् ‘इन्द्र’ शब्देन परमात्मा गृह्यते। स स्वोपासकानां स्तुतिभिः प्रीयमाणः सर्वविधबाधा दूरीकरोति बहूनि सुखानि तेभ्यः प्रयच्छति तदनन्तरं साक्षाद् भवतीति प्रदर्श्यते।
पदार्थः -
(इन्द्र) हे परमात्मन् ! (मे) मम (स्वर्विदः सध्रीचीः-विश्वाः-मतयः) सुखं मोक्षं प्रापयित्र्यः “स्वर्वित् सुखप्रापिकाः” [ऋ० १।९६।४ दयानन्दः] परस्पर सहयोगिन्यः सङ्गताः सर्वाः खलु वाचः “वाग्वै मतिः [श० ८।१।२।७] (उशतीः-अच्छ-अनूषत) त्वां कामयमानाः सम्यक् स्तुवन्ति “अनूषत-अस्तोषत” [निरु० ४।१९] “णु स्तुतौ” [अदादि०] ताभिः (यथा जनयः मर्यं पतिं नः) भार्या यथा मनुष्यं पतिमिव-एवम् (शुन्ध्युं मघवानं परिष्वजन्ते-ऊतये) पवित्रकर्तारमध्यात्मधनवन्तं त्वामात्मतृप्तये स्तोतारः परिष्वजन्ते-आलिङ्गन्ति ॥१॥