ऋग्वेद - मण्डल 10/ सूक्त 43/ मन्त्र 2
न घा॑ त्व॒द्रिगप॑ वेति मे॒ मन॒स्त्वे इत्कामं॑ पुरुहूत शिश्रय । राजे॑व दस्म॒ नि ष॒दोऽधि॑ ब॒र्हिष्य॒स्मिन्त्सु सोमे॑ऽव॒पान॑मस्तु ते ॥
स्वर सहित पद पाठन । घ॒ । त्व॒द्रिक् । अप॑ । वे॒ति॒ । मे॒ । मनः॑ । त्वे इति॑ । इत् । काम॑म् । पु॒रु॒ऽहू॒त॒ । शि॒श्र॒य॒ । राजा॑ऽइव । द॒स्म॒ । नि । स॒दः॒ । अधि॑ । ब॒र्हिषि॑ । अ॒स्मिन् । सु । सोमे॑ । अ॒व॒ऽपान॑म् । अ॒स्तु॒ । ते॒ ॥
स्वर रहित मन्त्र
न घा त्वद्रिगप वेति मे मनस्त्वे इत्कामं पुरुहूत शिश्रय । राजेव दस्म नि षदोऽधि बर्हिष्यस्मिन्त्सु सोमेऽवपानमस्तु ते ॥
स्वर रहित पद पाठन । घ । त्वद्रिक् । अप । वेति । मे । मनः । त्वे इति । इत् । कामम् । पुरुऽहूत । शिश्रय । राजाऽइव । दस्म । नि । सदः । अधि । बर्हिषि । अस्मिन् । सु । सोमे । अवऽपानम् । अस्तु । ते ॥ १०.४३.२
ऋग्वेद - मण्डल » 10; सूक्त » 43; मन्त्र » 2
अष्टक » 7; अध्याय » 8; वर्ग » 24; मन्त्र » 2
अष्टक » 7; अध्याय » 8; वर्ग » 24; मन्त्र » 2
पदार्थः -
(पुरुहूत) हे बहुप्रकारेण ह्वातव्य राजन् ! (मे मनः त्वद्रिक् न घ-अपवेति) मम मनः खलु त्वयि सम्पृक्तम् ‘रिच सम्पर्चने’ [चुरादि०] ‘ततः क्विप्’ न हि पृथग्भवति (त्वे-इत् कामं शिश्रय) त्वयि हि सर्वमभिलाषं स्थापयामि (दस्म) हे दर्शनीय परमात्मन् ! (राजा-इव बर्हिषि निषदः) राजा यथा तथाभूतस्त्वं हृदयावकाशे-हृदयासने निषीद (अस्मिन् सोमे सु-अवपानम्-अस्तु) अस्मिन्-उपासनारसे तव शोभनं तुच्छपानं भवतु ॥२॥