Loading...
ऋग्वेद मण्डल - 10 के सूक्त 43 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 43/ मन्त्र 5
    ऋषिः - कृष्णः देवता - इन्द्र: छन्दः - विराड्जगती स्वरः - निषादः

    कृ॒तं न श्व॒घ्नी वि चि॑नोति॒ देव॑ने सं॒वर्गं॒ यन्म॒घवा॒ सूर्यं॒ जय॑त् । न तत्ते॑ अ॒न्यो अनु॑ वी॒र्यं॑ शक॒न्न पु॑रा॒णो म॑घव॒न्नोत नूत॑नः ॥

    स्वर सहित पद पाठ

    कृ॒तम् । न । श्व॒ऽघ्नी । वि । चि॒नो॒ति॒ । देव॑ने । स॒म्ऽवर्ग॑म् । यत् । म॒घऽवा॑ । सूर्य॑म् । जय॑त् । न । तत् । ते॒ । अ॒न्यः । अनु॑ । वी॒र्य॑म् । श॒क॒त् । न । पु॒रा॒णः । म॒घ॒ऽव॒न् । न । उ॒त । नूत॑नः ॥


    स्वर रहित मन्त्र

    कृतं न श्वघ्नी वि चिनोति देवने संवर्गं यन्मघवा सूर्यं जयत् । न तत्ते अन्यो अनु वीर्यं शकन्न पुराणो मघवन्नोत नूतनः ॥

    स्वर रहित पद पाठ

    कृतम् । न । श्वऽघ्नी । वि । चिनोति । देवने । सम्ऽवर्गम् । यत् । मघऽवा । सूर्यम् । जयत् । न । तत् । ते । अन्यः । अनु । वीर्यम् । शकत् । न । पुराणः । मघऽवन् । न । उत । नूतनः ॥ १०.४३.५

    ऋग्वेद - मण्डल » 10; सूक्त » 43; मन्त्र » 5
    अष्टक » 7; अध्याय » 8; वर्ग » 24; मन्त्र » 5

    पदार्थः -
    (श्वघ्नी कृतं न विचिनोति) श्वहन्ता वृकः कृतं प्रहृतं यथा स्वाधीनं करोति (यत्-मघवा देवने संवर्गं सूर्यं जयत्) यत्-यथा तथा ऐश्वर्यवान् परमात्मा प्रकाशस्य वर्जयितारं प्रसारयितारं प्रकाशकरणे सूर्यमभिभवति-स्वाधीनी करोति “जि-अभिभवे” [भ्वादि०] (तत्-ते अन्यः-अनुवीर्यं शकत्) यथा तव वीर्यमनुकर्त्तुं शक्नोति (मघवन्) हे परमात्मन् ! (न पुराणः-न-उत नूतनः) स एष सूर्यो न पूर्वकालीनो नावरकालीनः ॥५॥

    इस भाष्य को एडिट करें
    Top