Loading...
ऋग्वेद मण्डल - 10 के सूक्त 43 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 43/ मन्त्र 4
    ऋषिः - कृष्णः देवता - इन्द्र: छन्दः - विराड्जगती स्वरः - निषादः

    वयो॒ न वृ॒क्षं सु॑पला॒शमास॑द॒न्त्सोमा॑स॒ इन्द्रं॑ म॒न्दिन॑श्चमू॒षद॑: । प्रैषा॒मनी॑कं॒ शव॑सा॒ दवि॑द्युतद्वि॒दत्स्व१॒॑र्मन॑वे॒ ज्योति॒रार्य॑म् ॥

    स्वर सहित पद पाठ

    वयः॑ । न । वृ॒क्षम् । सु॒ऽप॒ला॒शम् । आ । अ॒स॒द॒न् । सोमा॑सः । इन्द्र॑म् । म॒न्दिनः॑ । च॒मू॒ऽसदः॑ । प्र । ए॒षा॒म् । अनी॑कम् । शव॑सा । दवि॑द्युतत् । वि॒दत् । स्वः॑ । मन॑वे । ज्योतिः॑ । आर्य॑म् ॥


    स्वर रहित मन्त्र

    वयो न वृक्षं सुपलाशमासदन्त्सोमास इन्द्रं मन्दिनश्चमूषद: । प्रैषामनीकं शवसा दविद्युतद्विदत्स्व१र्मनवे ज्योतिरार्यम् ॥

    स्वर रहित पद पाठ

    वयः । न । वृक्षम् । सुऽपलाशम् । आ । असदन् । सोमासः । इन्द्रम् । मन्दिनः । चमूऽसदः । प्र । एषाम् । अनीकम् । शवसा । दविद्युतत् । विदत् । स्वः । मनवे । ज्योतिः । आर्यम् ॥ १०.४३.४

    ऋग्वेद - मण्डल » 10; सूक्त » 43; मन्त्र » 4
    अष्टक » 7; अध्याय » 8; वर्ग » 24; मन्त्र » 4

    पदार्थः -
    (वयः न सुपलाशं वृक्षम्-आसदन्) पक्षिणो यथा शोभन-पर्णयुक्तं वृक्षमासीदन्ति, तद्वत् (चमूषदः सोमासः-मन्दिनः-इन्द्रम्) चमन्ति खल्वध्यात्मरसं  यस्मिन् समाधौ तत्र स्थिताः शान्ताः स्तोतारः “मदि स्तुतिमोद…” [भ्वादि०] उपासकाः परमात्मानमासीदन्ति (एषाम्-अनीकं शवसा प्रदविद्युतत्) एषां मुखमात्मबलेन तेजसा प्रकाशयति (मनवे-आर्यं स्वः-ज्योतिः-विदत्) मननशीलाय श्रेष्ठं सुखप्रदं ज्ञानज्योतिः प्राप्नोति ॥४॥

    इस भाष्य को एडिट करें
    Top