Loading...
ऋग्वेद मण्डल - 10 के सूक्त 43 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 43/ मन्त्र 7
    ऋषिः - कृष्णः देवता - इन्द्र: छन्दः - विराड्जगती स्वरः - निषादः

    आपो॒ न सिन्धु॑म॒भि यत्स॒मक्ष॑र॒न्त्सोमा॑स॒ इन्द्रं॑ कु॒ल्या इ॑व ह्र॒दम् । वर्ध॑न्ति॒ विप्रा॒ महो॑ अस्य॒ साद॑ने॒ यवं॒ न वृ॒ष्टिर्दि॒व्येन॒ दानु॑ना ॥

    स्वर सहित पद पाठ

    आपः॑ । न । सिन्धु॑म् । अ॒भि । यत् । स॒म्ऽअक्ष॑रन् । सोमा॑सः । इन्द्र॑म् । कु॒ल्याःऽइ॑व । ह्र॒दम् । वर्ध॑न्ति । विप्राः॑ । महः॑ । अ॒स्य॒ । साद॑ने । यव॑म् । न । वृ॒ष्टिः । दि॒व्येन॑ । दानु॑ना ॥


    स्वर रहित मन्त्र

    आपो न सिन्धुमभि यत्समक्षरन्त्सोमास इन्द्रं कुल्या इव ह्रदम् । वर्धन्ति विप्रा महो अस्य सादने यवं न वृष्टिर्दिव्येन दानुना ॥

    स्वर रहित पद पाठ

    आपः । न । सिन्धुम् । अभि । यत् । सम्ऽअक्षरन् । सोमासः । इन्द्रम् । कुल्याःऽइव । ह्रदम् । वर्धन्ति । विप्राः । महः । अस्य । सादने । यवम् । न । वृष्टिः । दिव्येन । दानुना ॥ १०.४३.७

    ऋग्वेद - मण्डल » 10; सूक्त » 43; मन्त्र » 7
    अष्टक » 7; अध्याय » 8; वर्ग » 25; मन्त्र » 2

    पदार्थः -
    (आपः न सिन्धुं यत्) जलप्रवाहा नद्यः समुद्रं प्रति यथा (कुल्याः-इव ह्रदम्) नदीकुले भवाः कृत्रिमा अल्पनद्यः “अल्पनद्यः-निर्मिता जलगमनमार्गाः” [ऋ० ५।८३।८ दयानन्दः] यथा महान्तं जलाशयम् (समभ्यक्षरन्) अभिलक्ष्य संवहन्ति, तद्वत् (सोमासः-इन्द्रम्) उपासकानामुपासनाप्रवाहाः परमात्मानमभिलक्ष्य संवहन्ति सम्प्राप्ता भवन्ति, नान्यथा भवन्ति  (सदने-अस्य महः) सदने हृदये ‘अस्य’-इमम् ‘विभक्तिव्यत्ययेन’ महान्तं परमात्मानमभिलक्ष्य (विप्राः-वर्धन्ति) उपासकविद्वांसो वर्धयन्ति-प्रवृद्धं कुर्वन्ति (वृष्टिः दिव्येन दानुना यवं न ) यद्वा यथा वर्षणशीलो मेघः “वृषु सेचने” [भ्वादिः] ‘ततः क्तिच् कर्त्तरि तथा कृत्वाऽन्तोदात्तः’ आकाशभवेन जलप्रदानेनान्नं वर्धयन्ति ॥७॥

    इस भाष्य को एडिट करें
    Top