ऋग्वेद - मण्डल 10/ सूक्त 43/ मन्त्र 8
वृषा॒ न क्रु॒द्धः प॑तय॒द्रज॒स्स्वा यो अ॒र्यप॑त्नी॒रकृ॑णोदि॒मा अ॒पः । स सु॑न्व॒ते म॒घवा॑ जी॒रदा॑न॒वेऽवि॑न्द॒ज्ज्योति॒र्मन॑वे ह॒विष्म॑ते ॥
स्वर सहित पद पाठवृषा॑ । न । क्रु॒द्धः । प॒त॒य॒त् । रजः॑ऽसु । आ । यः । अ॒र्यऽप॑त्नीः । अकृ॑णोत् । इ॒माः । अ॒पः । सः । सु॒न्व॒ते । म॒घऽवा॑ । जी॒रऽदा॑नवे । अवि॑न्दत् । ज्योतिः॑ । मन॑वे । ह॒विष्म॑ते ॥
स्वर रहित मन्त्र
वृषा न क्रुद्धः पतयद्रजस्स्वा यो अर्यपत्नीरकृणोदिमा अपः । स सुन्वते मघवा जीरदानवेऽविन्दज्ज्योतिर्मनवे हविष्मते ॥
स्वर रहित पद पाठवृषा । न । क्रुद्धः । पतयत् । रजःऽसु । आ । यः । अर्यऽपत्नीः । अकृणोत् । इमाः । अपः । सः । सुन्वते । मघऽवा । जीरऽदानवे । अविन्दत् । ज्योतिः । मनवे । हविष्मते ॥ १०.४३.८
ऋग्वेद - मण्डल » 10; सूक्त » 43; मन्त्र » 8
अष्टक » 7; अध्याय » 8; वर्ग » 25; मन्त्र » 3
अष्टक » 7; अध्याय » 8; वर्ग » 25; मन्त्र » 3
पदार्थः -
(क्रुद्धः-वृषा न रजःसु पतयत्) बलेन संवृद्धो वृषभो यथा धूलिषु मृत्कणेषु पतति, तद्वत् (यः-इमाः अपः अर्यपत्नीः आकृणोत्) य आप्तान् मनुष्यान् प्रापण-शीलानुपासकान् “मनुष्या वा आपश्चन्द्राः” [श० ७।३।१।२०] अर्यस्य स्वस्य पालयितव्याः प्रजाः स्वीकरोति तस्मात्तद्विरोधिकामादिशत्रुषु पतति ताडयति, अत एव (सः मघवा) स ऐश्वर्यवान् परमात्मा (हविष्मते) आत्मवते “आत्मा वै हविः” [काठ० ८।५] (मनवे) मननकर्त्रे (सुन्वते) उपासनारसं निष्पादयते (जीरदानवे) जीवनदात्रे (ज्योतिः अविन्दत्) स्वज्योतिःस्वरूपं प्रापयति ॥८॥