Loading...
ऋग्वेद मण्डल - 10 के सूक्त 63 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 63/ मन्त्र 13
    ऋषिः - गयः प्लातः देवता - विश्वेदेवा: छन्दः - विराड्जगती स्वरः - निषादः

    अरि॑ष्ट॒: स मर्तो॒ विश्व॑ एधते॒ प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्परि॑ । यमा॑दित्यासो॒ नय॑था सुनी॒तिभि॒रति॒ विश्वा॑नि दुरि॒ता स्व॒स्तये॑ ॥

    स्वर सहित पद पाठ

    अरि॑ष्टः । सः । मर्तः॑ । विश्वः॑ । ए॒ध॒ते॒ । प्र । प्र॒ऽजाभिः॑ । जा॒य॒ते॒ । धर्म॑णः । परि॑ । यम् । आ॒दि॒त्या॒सः॒ । नय॑थ । सु॒नी॒तिऽभिः॑ । अति॑ । विश्वा॑नि । दुः॒ऽइ॒ता । स्व॒स्तये॑ ॥


    स्वर रहित मन्त्र

    अरिष्ट: स मर्तो विश्व एधते प्र प्रजाभिर्जायते धर्मणस्परि । यमादित्यासो नयथा सुनीतिभिरति विश्वानि दुरिता स्वस्तये ॥

    स्वर रहित पद पाठ

    अरिष्टः । सः । मर्तः । विश्वः । एधते । प्र । प्रऽजाभिः । जायते । धर्मणः । परि । यम् । आदित्यासः । नयथ । सुनीतिऽभिः । अति । विश्वानि । दुःऽइता । स्वस्तये ॥ १०.६३.१३

    ऋग्वेद - मण्डल » 10; सूक्त » 63; मन्त्र » 13
    अष्टक » 8; अध्याय » 2; वर्ग » 5; मन्त्र » 3

    पदार्थः -
    (आदित्यासः) हे अखण्डितज्ञान-ब्रह्मचर्यवन्तो विद्वांसः ! (यं सुनीतिभिः) यं जनं शोभननयनक्रियाभिः-सदाचरणशिक्षाभिः (विश्वानि दुरिता-अति) सर्वाणि पापानि खल्वतिक्रम्य (स्वस्तये नयथ) कल्याणाय नयथ (सः-विश्वः-मर्तः-अरिष्टः-प्र-एधते) स सकलो जनोऽपीडितः सन् प्रवर्धते (प्रजाभिः-धर्मणः-परि-जायते) पुत्रादिभिः गुणेऽधिष्ठितः “पञ्चम्याः परावध्यर्थे” [अष्टा० ८।३।५] सञ्जायते प्रसिद्ध्यति ॥१३॥

    इस भाष्य को एडिट करें
    Top