Loading...
ऋग्वेद मण्डल - 10 के सूक्त 63 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 63/ मन्त्र 14
    ऋषिः - गयः प्लातः देवता - विश्वेदेवा: छन्दः - पादनिचृज्ज्गती स्वरः - निषादः

    यं दे॑वा॒सोऽव॑थ॒ वाज॑सातौ॒ यं शूर॑साता मरुतो हि॒ते धने॑ । प्रा॒त॒र्यावा॑णं॒ रथ॑मिन्द्र सान॒सिमरि॑ष्यन्त॒मा रु॑हेमा स्व॒स्तये॑ ॥

    स्वर सहित पद पाठ

    यम् । दे॒वा॒सः॒ । अव॑थ । वाज॑ऽसातौ । यम् । शूर॑ऽसाता । म॒रु॒तः॒ । हि॒ते । धने॑ । प्रा॒तः॒ऽयावा॑नम् । रथ॑म् । इ॒न्द्र॒ । सा॒न॒सिम् । अरि॑ष्यन्तम् । आ । रु॒हे॒म॒ । स्व॒स्तये॑ ॥


    स्वर रहित मन्त्र

    यं देवासोऽवथ वाजसातौ यं शूरसाता मरुतो हिते धने । प्रातर्यावाणं रथमिन्द्र सानसिमरिष्यन्तमा रुहेमा स्वस्तये ॥

    स्वर रहित पद पाठ

    यम् । देवासः । अवथ । वाजऽसातौ । यम् । शूरऽसाता । मरुतः । हिते । धने । प्रातःऽयावानम् । रथम् । इन्द्र । सानसिम् । अरिष्यन्तम् । आ । रुहेम । स्वस्तये ॥ १०.६३.१४

    ऋग्वेद - मण्डल » 10; सूक्त » 63; मन्त्र » 14
    अष्टक » 8; अध्याय » 2; वर्ग » 5; मन्त्र » 4

    पदार्थः -
    (मरुतः-देवासः)  हे जीवन्मुक्ता विद्वांसः ! ‘मरुतो ह वै देवविशः’ [कौ० ७।८] (यं वाजसातौ) यममृतभोगप्राप्तौ “अमृतोऽन्नं वै वाजः” [जै० २।१९३] (यं शूरसाता) यं पापहिंसनप्राप्तौ (हिते धने) हितकरेऽध्यात्मधननिमित्ते (अवथ) रक्षथ (इन्द्र) हे परमात्मन् ! (प्रातर्यावाणं रथम्) जीवनस्य प्रातर्ब्रह्मचर्येण गमनशक्तिमन्तं रमणीयं (सानसिम्) शाश्वतं सुखरूपम्  “सानसिं पुराणम्” [यजु० १२।११० दयानन्दः] (अरिष्यन्तम्) हिंसादोषरहितं (स्वस्तये-आरुहेम) कल्याणाय समन्तात् प्राप्नुयाम ॥१४॥

    इस भाष्य को एडिट करें
    Top