Loading...
ऋग्वेद मण्डल - 10 के सूक्त 63 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 63/ मन्त्र 17
    ऋषिः - गयः प्लातः देवता - विश्वेदेवा: छन्दः - पादनिचृत्त्रिष्टुप् स्वरः - धैवतः

    ए॒वा प्ल॒तेः सू॒नुर॑वीवृधद्वो॒ विश्व॑ आदित्या अदिते मनी॒षी । ई॒शा॒नासो॒ नरो॒ अम॑र्त्ये॒नास्ता॑वि॒ जनो॑ दि॒व्यो गये॑न ॥

    स्वर सहित पद पाठ

    ए॒व । प्ल॒तेः । सू॒नुः । अ॒वी॒वृ॒ध॒त् । वः॒ । विश्वे॑ । आ॒दि॒त्याः॒ । अ॒दि॒ते॒ । म॒नी॒षी । ई॒शा॒नासः॑ । नरः॑ । अम॑र्त्येन । अस्ता॑वि । जनः॑ । दि॒व्यः । गये॑न ॥


    स्वर रहित मन्त्र

    एवा प्लतेः सूनुरवीवृधद्वो विश्व आदित्या अदिते मनीषी । ईशानासो नरो अमर्त्येनास्तावि जनो दिव्यो गयेन ॥

    स्वर रहित पद पाठ

    एव । प्लतेः । सूनुः । अवीवृधत् । वः । विश्वे । आदित्याः । अदिते । मनीषी । ईशानासः । नरः । अमर्त्येन । अस्तावि । जनः । दिव्यः । गयेन ॥ १०.६३.१७

    ऋग्वेद - मण्डल » 10; सूक्त » 63; मन्त्र » 17
    अष्टक » 8; अध्याय » 2; वर्ग » 5; मन्त्र » 7

    पदार्थः -
    (विश्वे-आदित्याः) हे सर्वविषयेषु प्रविष्टा अखण्डितज्ञानब्रह्मचर्यकाः परमर्षयः (अदिते) अदितये-अखण्डसुखसम्पत्तये व्यत्ययेन सम्बुद्धिः (वः) युष्मान् (प्लतेः सूनुः) संसारसागरस्य पारयितुरध्यात्मयज्ञस्य  ‘प्लु गतौ’ [भ्वादि०] ‘ततो डतिर्बाहुलका-दौणादिकः’ प्रेरयिता (मनीषी) प्रज्ञावान् (अवीवृधत्) वर्धयति प्रशंसति (ईशानासः-नरः) यूयं ज्ञानस्वामिनो जीवन्मुक्ताः (अमर्त्येन गयेन) मरणधर्मरहितेन सर्वाश्रयेण प्राणरूपेण परमात्मना (दिव्यः-जनः) दिव्याः-मनुष्याः-ऋषयः ‘एकवचनं व्यत्ययेन बहुवचने’ (अस्तावि) वेदज्ञानं दत्त्वा प्रशंसिताः ॥१७॥

    इस भाष्य को एडिट करें
    Top