ऋग्वेद - मण्डल 10/ सूक्त 63/ मन्त्र 16
ऋषिः - गयः प्लातः
देवता - पथ्यास्वस्तिः
छन्दः - स्वराडार्चीत्रिष्टुप्
स्वरः - धैवतः
स्व॒स्तिरिद्धि प्रप॑थे॒ श्रेष्ठा॒ रेक्ण॑स्वत्य॒भि या वा॒ममेति॑ । सा नो॑ अ॒मा सो अर॑णे॒ नि पा॑तु स्वावे॒शा भ॑वतु दे॒वगो॑पा ॥
स्वर सहित पद पाठस्व॒स्तिः । इत् । हि । प्रऽप॑थे । श्रेष्ठा॑ । रेक्ण॑स्वती । अ॒भि । या । वा॒मम् । एति॑ । सा । नः॒ । अ॒मा । सो इति॑ । अर॑णे । नि । पा॒तु॒ । सु॒ऽआ॒वे॒शा । भ॒व॒तु॒ । दे॒वऽगो॑पा ॥
स्वर रहित मन्त्र
स्वस्तिरिद्धि प्रपथे श्रेष्ठा रेक्णस्वत्यभि या वाममेति । सा नो अमा सो अरणे नि पातु स्वावेशा भवतु देवगोपा ॥
स्वर रहित पद पाठस्वस्तिः । इत् । हि । प्रऽपथे । श्रेष्ठा । रेक्णस्वती । अभि । या । वामम् । एति । सा । नः । अमा । सो इति । अरणे । नि । पातु । सुऽआवेशा । भवतु । देवऽगोपा ॥ १०.६३.१६
ऋग्वेद - मण्डल » 10; सूक्त » 63; मन्त्र » 16
अष्टक » 8; अध्याय » 2; वर्ग » 5; मन्त्र » 6
अष्टक » 8; अध्याय » 2; वर्ग » 5; मन्त्र » 6
पदार्थः -
(स्वस्तिः-इत्-हि) स्वस्तिः कल्याणभावना खल्वेव (प्रपथे) पथाग्रे (श्रेष्ठा) श्रेष्ठरूपा (रेक्णस्वती) धनधान्यवती (या वामम्-अभ्येति) या वनयितारं सम्भजयितारं प्राप्नोति (सा नः) साऽस्मान् (अमा) गृहे “अमा गृहनाम” [निघ० ३।४] (सा नः-अरणे) सा हि अरण्ये (नि पातु) निरन्तरं रक्षतु (देवगोपा स्वावेशा भवतु) देवैर्विद्वद्भी रक्षिता शोभनावेशयित्री भवतु ॥१६॥