ऋग्वेद - मण्डल 10/ सूक्त 64/ मन्त्र 3
नरा॑ वा॒ शंसं॑ पू॒षण॒मगो॑ह्यम॒ग्निं दे॒वेद्ध॑म॒भ्य॑र्चसे गि॒रा । सूर्या॒मासा॑ च॒न्द्रम॑सा य॒मं दि॒वि त्रि॒तं वात॑मु॒षस॑म॒क्तुम॒श्विना॑ ॥
स्वर सहित पद पाठनरा॒शंस॑म् । वा॒ । पू॒षण॑म् । अगो॑ह्यम् । अ॒ग्निम् । दे॒वऽइ॑द्धम् । अ॒भि । अ॒र्च॒से॒ । गि॒रा । सूर्या॒मासा॑ । च॒न्द्रम॑सा । य॒मम् । दि॒वि । त्रि॒तम् । वात॑म् । उ॒षस॑म् । अ॒क्तुम् । अ॒श्विना॑ ॥
स्वर रहित मन्त्र
नरा वा शंसं पूषणमगोह्यमग्निं देवेद्धमभ्यर्चसे गिरा । सूर्यामासा चन्द्रमसा यमं दिवि त्रितं वातमुषसमक्तुमश्विना ॥
स्वर रहित पद पाठनराशंसम् । वा । पूषणम् । अगोह्यम् । अग्निम् । देवऽइद्धम् । अभि । अर्चसे । गिरा । सूर्यामासा । चन्द्रमसा । यमम् । दिवि । त्रितम् । वातम् । उषसम् । अक्तुम् । अश्विना ॥ १०.६४.३
ऋग्वेद - मण्डल » 10; सूक्त » 64; मन्त्र » 3
अष्टक » 8; अध्याय » 2; वर्ग » 6; मन्त्र » 3
अष्टक » 8; अध्याय » 2; वर्ग » 6; मन्त्र » 3
पदार्थः -
(वा) अथ च (नराशंसम्) नरैर्मनुष्यैः प्रशंसनीयं (पूषणम्) पोषयितारं (अगोह्यम्-अग्निम्) प्रत्यक्षीकरणीयमग्निरूपं परमात्मानं (देवेद्धम्) देवैर्विद्वद्भिः स्वान्तरात्मनि साक्षात्करणीयं परमात्मानं (गिरा-अभ्यर्चसे) स्तुत्या खल्वभिष्टुहि (सूर्यमासा चन्द्रमसा) सूर्याचन्द्रमसौ-सूर्यचन्द्रौ-सूर्यचन्द्राविव ज्ञानप्रकाशस्नेहप्रसारकं तं परमात्मानं (यमम्) जगन्नियन्तारं (दिवि त्रितम्) मोक्षधाम्नि वर्तमानं त्रिषु लोकेषु ततं व्यापकं (वातम्) वात इव जीवनप्रदस्तं (उषसम्-अक्तुम्) जागृतिप्रदं स्नेहप्रदं परमात्मानं (अश्विना) ज्योतिर्मयमानन्दरसमयं च पूजय ॥३॥