Loading...
ऋग्वेद मण्डल - 10 के सूक्त 64 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 64/ मन्त्र 4
    ऋषिः - गयः प्लातः देवता - विश्वेदेवा: छन्दः - निचृज्जगती स्वरः - निषादः

    क॒था क॒विस्तु॑वी॒रवा॒न्कया॑ गि॒रा बृह॒स्पति॑र्वावृधते सुवृ॒क्तिभि॑: । अ॒ज एक॑पात्सु॒हवे॑भि॒ॠक्व॑भि॒रहि॑: शृणोतु बु॒ध्न्यो॒३॒॑ हवी॑मनि ॥

    स्वर सहित पद पाठ

    क॒था । क॒विः । तु॒वि॒ऽरवा॑न् । कया॑ । गि॒रा । बृह॒स्पतिः॑ । व॒वृ॒ध॒ते॒ । सु॒वृ॒क्तिऽभिः॑ । अ॒जः । एक॑ऽपात् । सु॒ऽहवे॑भिः । ऋक्व॑ऽभिः । अहिः॑ । शृ॒णो॒तु॒ । बु॒ध्न्यः॑ । हवी॑मनि ॥


    स्वर रहित मन्त्र

    कथा कविस्तुवीरवान्कया गिरा बृहस्पतिर्वावृधते सुवृक्तिभि: । अज एकपात्सुहवेभिॠक्वभिरहि: शृणोतु बुध्न्यो३ हवीमनि ॥

    स्वर रहित पद पाठ

    कथा । कविः । तुविऽरवान् । कया । गिरा । बृहस्पतिः । ववृधते । सुवृक्तिऽभिः । अजः । एकऽपात् । सुऽहवेभिः । ऋक्वऽभिः । अहिः । शृणोतु । बुध्न्यः । हवीमनि ॥ १०.६४.४

    ऋग्वेद - मण्डल » 10; सूक्त » 64; मन्त्र » 4
    अष्टक » 8; अध्याय » 2; वर्ग » 6; मन्त्र » 4

    पदार्थः -
    (तुवीरवान् कविः) बहुज्ञानवन्तः स्वामी “तुवि बहुनाम” [निघ० ३।१] बहूनि ज्ञानानि विद्यन्ते यस्मिन् स वेदस्तद्वान् क्रान्तदर्शी सर्वज्ञः (बृहस्पतिः) परमात्मा (कथा) कथं (कया गिरा) कया वाचा “गीर्वाङ्नाम” [निघ० १।११] (सुवृक्तिभिः) सुस्तुतिभिः “सुवृक्तिभिः-शोभनाभिः स्तुतिभिः” [निरु०  २।२४] (वावृधते) स्तोतुरात्मनि भृशं वर्धते साक्षाद् भवति (अजः-एकपात्) स खलु जगत्येक एव स्वगुणैः प्राप्तो भवति (अहिः-बुध्न्यः) अहन्तव्यनियमः बोधव्यः (सुहवेभिः-ऋक्वभिः) शोभनाह्वानैः-ऋक्स्तोत्रैः (हवीमनि) ह्वानप्रसङ्गे (शृणोतु) शृणुयात् ॥४॥

    इस भाष्य को एडिट करें
    Top