ऋग्वेद - मण्डल 10/ सूक्त 64/ मन्त्र 5
दक्ष॑स्य वादिते॒ जन्म॑नि व्र॒ते राजा॑ना मि॒त्रावरु॒णा वि॑वाससि । अतू॑र्तपन्थाः पुरु॒रथो॑ अर्य॒मा स॒प्तहो॑ता॒ विषु॑रूपेषु॒ जन्म॑सु ॥
स्वर सहित पद पाठदक्ष॑स्य । वा॒ । अ॒दि॒ते॒ । जन्म॑नि । व्र॒ते । राजा॑ना । मि॒त्रावरु॑णा । वि॒वा॒स॒सि॒ । अतू॑र्तऽपन्थाः । पु॒रु॒ऽरथः॑ । अ॒र्य॒मा । स॒प्तऽहो॑ता । विषु॑ऽरूपेषु । जन्म॑ऽसु ॥
स्वर रहित मन्त्र
दक्षस्य वादिते जन्मनि व्रते राजाना मित्रावरुणा विवाससि । अतूर्तपन्थाः पुरुरथो अर्यमा सप्तहोता विषुरूपेषु जन्मसु ॥
स्वर रहित पद पाठदक्षस्य । वा । अदिते । जन्मनि । व्रते । राजाना । मित्रावरुणा । विवाससि । अतूर्तऽपन्थाः । पुरुऽरथः । अर्यमा । सप्तऽहोता । विषुऽरूपेषु । जन्मऽसु ॥ १०.६४.५
ऋग्वेद - मण्डल » 10; सूक्त » 64; मन्त्र » 5
अष्टक » 8; अध्याय » 2; वर्ग » 6; मन्त्र » 5
अष्टक » 8; अध्याय » 2; वर्ग » 6; मन्त्र » 5
पदार्थः -
(अदिते) हे अनश्वर परमात्मन् ! (दक्षस्य) दक्ष्यन्ते समृद्ध्यन्ते यस्मै पदार्थाः स आत्मा तस्य “अथ यदस्मै तत्समृद्ध्यते स दक्षः” [श० ४।१।४।१] (जन्मनि व्रते) जन्मनि कर्मणि (राजाना मित्रावरुणा) शरीरे वर्तमानौ प्राणापानौ “प्राणापानौ वै मित्रावरुणौ” [काठ० २९।१] (विवाससि) विशिष्टतया वासयसि प्रकटयसि (अतूर्तपन्थाः) य आत्मा अत्वरणपन्थाः-गम्भीरमार्गकः (पुरुरथः) बहुरमणसाधनः (अर्यमा) शरीरस्य स्वामी (सप्तहोता) सप्ताः तृप्ताः सर्पणशीलाः प्राणा यस्य तथाभूतः (विषुरूपेषु जन्मसु) भिन्नभिन्नरूपेषु जन्मसु प्रवर्तमानोऽस्तीत्यध्यात्मम् ॥५॥ अथ दैवतम्−(अदिते) हे प्रातस्तनि-उषो देवते ! (दक्षस्य जन्मनि) स्वजन्मनि सूर्यस्य जन्मनि वा (व्रते) कर्मणि (राजाना मित्रावरुणा) राजमानौ-अहोरात्रौ “अहोरात्रौ मित्रावरुणौ” [तां० २५।१०।१०] (विवाससि) परिचरसि सेवसे (अतूर्तपन्थाः) अत्वरमाणपन्थाः-एकरसमार्गकोऽतिचालितमार्गकः (पुरुरथः) बहूनां रमणस्थानः (अर्यमा) आदित्यः “अर्यमाऽऽदित्यः” [निरु० ११।२३] (सप्तहोता) सप्तवर्णका रश्मयो यस्य रसाहरणशीलाः सः (विषुरूपेषु जन्मसु) विषुरूपेषु खलु कर्मसूदयेषु “विषमरूपेषु जन्मसु कर्मसूदयेषु” [निरु० ११।२३] दृश्यते ॥५॥