Loading...
ऋग्वेद मण्डल - 10 के सूक्त 66 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 66/ मन्त्र 11
    ऋषिः - वसुकर्णो वासुक्रः देवता - विश्वेदेवा: छन्दः - विराड्जगती स्वरः - निषादः

    स॒मु॒द्रः सिन्धू॒ रजो॑ अ॒न्तरि॑क्षम॒ज एक॑पात्तनयि॒त्नुर॑र्ण॒वः । अहि॑र्बु॒ध्न्य॑: शृणव॒द्वचां॑सि मे॒ विश्वे॑ दे॒वास॑ उ॒त सू॒रयो॒ मम॑ ॥

    स्वर सहित पद पाठ

    स॒मु॒द्रः । सिन्धुः॑ । रजः॑ । अ॒न्तरि॑क्षम् । अ॒जः । एक॑ऽपात् । त॒न॒यि॒त्नुः । अ॒र्ण॒वः । अहिः॑ । बु॒ध्न्यः॑ । शृ॒ण॒व॒त् । वचां॑सि । मे॒ । विश्वे॑ । दे॒वासः॑ । उ॒त । सू॒रयः॑ । मम॑ ॥


    स्वर रहित मन्त्र

    समुद्रः सिन्धू रजो अन्तरिक्षमज एकपात्तनयित्नुरर्णवः । अहिर्बुध्न्य: शृणवद्वचांसि मे विश्वे देवास उत सूरयो मम ॥

    स्वर रहित पद पाठ

    समुद्रः । सिन्धुः । रजः । अन्तरिक्षम् । अजः । एकऽपात् । तनयित्नुः । अर्णवः । अहिः । बुध्न्यः । शृणवत् । वचांसि । मे । विश्वे । देवासः । उत । सूरयः । मम ॥ १०.६६.११

    ऋग्वेद - मण्डल » 10; सूक्त » 66; मन्त्र » 11
    अष्टक » 8; अध्याय » 2; वर्ग » 14; मन्त्र » 1

    पदार्थः -
    (समुद्रः) सागरः (सिन्धुः) नदी (रजः) पृथिवीलोकः (अन्तरिक्षम्) आकाशः (एकपात्-अजः) एकः स्वाधारगतिकोऽन्येभ्यो गतिप्रदः सूर्यः “अज एकपादुदगात् पुरस्तात्.....तं सूर्यं देवमजमेकपादम्” [तै० ३।१।२।८] (तनयित्नुः) स्तनयित्नुः-विद्युत् (अर्णवः) उदकवान् जलाशयः “अर्णः-उदकनाम” [निघ० १।१२] (बुध्न्यः-अहिः) आन्तरिक्ष्यो मेघः, एते अनुकूला भवन्तु (विश्वेदेवासः-उत सूरयः) सर्वे विद्वांसोऽपि मेधाविनश्च (मे वचांसि शृणवत्) मम प्रार्थनावचनानि शृण्वन्तु ॥११॥

    इस भाष्य को एडिट करें
    Top