Loading...
ऋग्वेद मण्डल - 10 के सूक्त 66 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 66/ मन्त्र 12
    ऋषिः - वसुकर्णो वासुक्रः देवता - विश्वेदेवा: छन्दः - निचृज्जगती स्वरः - निषादः

    स्याम॑ वो॒ मन॑वो दे॒ववी॑तये॒ प्राञ्चं॑ नो य॒ज्ञं प्र ण॑यत साधु॒या । आदि॑त्या॒ रुद्रा॒ वस॑व॒: सुदा॑नव इ॒मा ब्रह्म॑ श॒स्यमा॑नानि जिन्वत ॥

    स्वर सहित पद पाठ

    स्याम॑ । वः॒ । मन॑वः । दे॒वऽवी॑तये । प्राञ्च॑म् । नः॒ । य॒ज्ञम् । प्र । न॒य॒त॒ । सा॒धु॒ऽया । आदी॑त्याः । रुद्राः॑ । वस॑वः । सुऽदा॑नवः । इ॒मा । ब्रह्म॑ । श॒स्यमा॑नानि । जि॒न्व॒त॒ ॥


    स्वर रहित मन्त्र

    स्याम वो मनवो देववीतये प्राञ्चं नो यज्ञं प्र णयत साधुया । आदित्या रुद्रा वसव: सुदानव इमा ब्रह्म शस्यमानानि जिन्वत ॥

    स्वर रहित पद पाठ

    स्याम । वः । मनवः । देवऽवीतये । प्राञ्चम् । नः । यज्ञम् । प्र । नयत । साधुऽया । आदीत्याः । रुद्राः । वसवः । सुऽदानवः । इमा । ब्रह्म । शस्यमानानि । जिन्वत ॥ १०.६६.१२

    ऋग्वेद - मण्डल » 10; सूक्त » 66; मन्त्र » 12
    अष्टक » 8; अध्याय » 2; वर्ग » 14; मन्त्र » 2

    पदार्थः -
    (मनवः) हे मननशीला विद्वांसः ! (वः) युष्माकं (देववीतये) विद्वत्सङ्गत्यै (स्याम) भवेम (नः-यज्ञं प्राञ्चं साधुया प्रणयत) अस्माकं ज्ञानयज्ञं प्रगतिशीलं साधुरूपं प्रवर्तयत (आदित्याः-रुद्राः-वसवः सुदानवः) पूर्णब्रह्मचारिणो मध्यब्रह्मचारिणोऽल्पब्रह्मचारिणः शोभनज्ञानदातारः (इमा ब्रह्म शस्यमानानि जिन्वत) एतानि मन्त्रवचनानि प्रशंसनीयानि वचनानि प्रापयत “जिन्वति गतिकर्मा” [निघ० ५।१४] ॥१२॥

    इस भाष्य को एडिट करें
    Top