Loading...
ऋग्वेद मण्डल - 10 के सूक्त 66 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 66/ मन्त्र 14
    ऋषिः - वसुकर्णो वासुक्रः देवता - विश्वेदेवा: छन्दः - स्वराडार्चीजगती स्वरः - निषादः

    वसि॑ष्ठासः पितृ॒वद्वाच॑मक्रत दे॒वाँ ईळा॑ना ऋषि॒वत्स्व॒स्तये॑ । प्री॒ता इ॑व ज्ञा॒तय॒: काम॒मेत्या॒स्मे दे॑वा॒सोऽव॑ धूनुता॒ वसु॑ ॥

    स्वर सहित पद पाठ

    वसि॑ष्ठासः । पि॒तृ॒ऽवत् । वाच॑म् । अ॒क्र॒त॒ । दे॒वान् । ईळा॑नाः । ऋ॒षि॒ऽवत् । स्व॒स्तये॑ । प्री॒ताःऽइ॑व । ज्ञा॒तयः॑ । काम॑म् । आ॒ऽइत्य॑ । अ॒स्मे इति॑ । दे॒वा॒सः । अव॑ । धू॒नु॒त॒ । वसु॑ ॥


    स्वर रहित मन्त्र

    वसिष्ठासः पितृवद्वाचमक्रत देवाँ ईळाना ऋषिवत्स्वस्तये । प्रीता इव ज्ञातय: काममेत्यास्मे देवासोऽव धूनुता वसु ॥

    स्वर रहित पद पाठ

    वसिष्ठासः । पितृऽवत् । वाचम् । अक्रत । देवान् । ईळानाः । ऋषिऽवत् । स्वस्तये । प्रीताःऽइव । ज्ञातयः । कामम् । आऽइत्य । अस्मे इति । देवासः । अव । धूनुत । वसु ॥ १०.६६.१४

    ऋग्वेद - मण्डल » 10; सूक्त » 66; मन्त्र » 14
    अष्टक » 8; अध्याय » 2; वर्ग » 14; मन्त्र » 4

    पदार्थः -
    (वसिष्ठासः) वेदाध्ययनब्रह्मचर्ययोरतिशयेन वासिनः “वसिष्ठाः-अतिशयेन ब्रह्मचर्ये कृतवासाः” [ऋ० ७।३३।३ दयानन्दः] (पितृवत्-वाचम्-अक्रत) गरुं पितृवन्मत्वा तस्य वचनमाज्ञापालनं कुर्वन्तु (देवान्-ऋषिवत्-स्वस्तये-ईळानाः) अन्यान् गुरुभिन्नान् जीवन्मुक्तान् परमात्मसाक्षात्कृतवतः प्रशस्तानृषीनिव कल्याणाय तान् सेवमानाः (प्रीताः-इव ज्ञातयः-देवासः कामम्-एत्य) प्रसन्नाः-तृप्ता बान्धवा इव विद्वांसः ! यथेष्टमस्माकं गृहमागत्य (अस्मे वसु-अवधूनुत) अस्मभ्यं वासयित्रधनं ज्ञानधनमवप्रेरयत ॥१४॥

    इस भाष्य को एडिट करें
    Top