ऋग्वेद - मण्डल 10/ सूक्त 66/ मन्त्र 13
ऋषिः - वसुकर्णो वासुक्रः
देवता - विश्वेदेवा:
छन्दः - निचृज्जगती
स्वरः - निषादः
दैव्या॒ होता॑रा प्रथ॒मा पु॒रोहि॑त ऋ॒तस्य॒ पन्था॒मन्वे॑मि साधु॒या । क्षेत्र॑स्य॒ पतिं॒ प्रति॑वेशमीमहे॒ विश्वा॑न्दे॒वाँ अ॒मृताँ॒ अप्र॑युच्छतः ॥
स्वर सहित पद पाठदैव्याः॑ । होता॑रा । प्र॒थ॒मा । पु॒रःऽहि॑ता । ऋ॒तस्य॑ । पन्था॑म् । अनु॑ । ए॒मि॒ । सा॒धु॒ऽया । क्षेत्र॑स्य । पति॑म् । प्रति॑ऽवेशम् । ई॒म॒हे॒ । विश्वा॑न् । दे॒वान् । अ॒मृता॑न् । अप्र॑ऽयुच्छतः ॥
स्वर रहित मन्त्र
दैव्या होतारा प्रथमा पुरोहित ऋतस्य पन्थामन्वेमि साधुया । क्षेत्रस्य पतिं प्रतिवेशमीमहे विश्वान्देवाँ अमृताँ अप्रयुच्छतः ॥
स्वर रहित पद पाठदैव्याः । होतारा । प्रथमा । पुरःऽहिता । ऋतस्य । पन्थाम् । अनु । एमि । साधुऽया । क्षेत्रस्य । पतिम् । प्रतिऽवेशम् । ईमहे । विश्वान् । देवान् । अमृतान् । अप्रऽयुच्छतः ॥ १०.६६.१३
ऋग्वेद - मण्डल » 10; सूक्त » 66; मन्त्र » 13
अष्टक » 8; अध्याय » 2; वर्ग » 14; मन्त्र » 3
अष्टक » 8; अध्याय » 2; वर्ग » 14; मन्त्र » 3
पदार्थः -
(प्रथमा) हे प्रमुखौ प्रतमौ प्रसिद्धौ (पुरोहिता) पुरोहितौ पुरतो वर्तमानौ (दैव्या होतारा) देवेषु विद्वत्सु योग्यौ “देवेषु विद्वत्सु साधु” [यजु० २८।७ दयानन्दः] होतारौ ज्ञानस्य दातारौ कर्त्तारावध्यापकोपदेशकौ “होतारौ दातारावध्यापकोदेशकौ” [यजु० २८।४० दयानन्दः] (साधुया-ऋतस्य पन्थाम्-अन्वेमि) सद्भावेन वेदज्ञानस्य मार्गमनुगच्छेयमनुसरेयम् “लिङर्थे लेट्” [अष्टा० ३।४।७] (क्षेत्रस्य पतिम्) जगतः स्वामिनं परमात्मानम्” क्षेत्रस्य क्षयन्ति निवसन्ति यस्मिञ्जगति तस्य” [ऋ० ७।३५।१० दयानन्दः] (प्रतिवेशम्) विशति शरीरेषु यः स जीवो वेशः “विश् प्रवेशने” [भ्वादिः] ‘ततोऽच् कर्तरि’ प्रतिगतो वेशं जीवमिति प्रतिवेशः परमात्मा तं (ईमहे) याचामहे प्रार्थयामहे वयं (विश्वान् देवान्-अमृतान्-अप्रयुच्छतः) तथा सर्वान् विदुषोऽमृतान् जीवन्मुक्तान् सदाऽप्रमादान् सावधानान्-ईमहे प्रार्थयामहे-वाञ्छामहे ॥१३॥