ऋग्वेद - मण्डल 10/ सूक्त 74/ मन्त्र 3
ऋषिः - गौरिवीतिः
देवता - इन्द्र:
छन्दः - भुरिगार्चीत्रिष्टुप्
स्वरः - धैवतः
इ॒यमे॑षाम॒मृता॑नां॒ गीः स॒र्वता॑ता॒ ये कृ॒पण॑न्त॒ रत्न॑म् । धियं॑ च य॒ज्ञं च॒ साध॑न्त॒स्ते नो॑ धान्तु वस॒व्य१॒॑मसा॑मि ॥
स्वर सहित पद पाठइ॒यम् । ए॒षा॒म् । अ॒मृता॑नाम् । गीः । स॒र्वऽता॑ता । ये । कृ॒पण॑न्त । रत्न॑म् । धिय॑म् । च॒ । य॒ज्ञम् । च॒ । साध॑न्तः । ते । नः॒ । धा॒न्तु॒ । व॒स॒व्य॑म् । असा॑मि ॥
स्वर रहित मन्त्र
इयमेषाममृतानां गीः सर्वताता ये कृपणन्त रत्नम् । धियं च यज्ञं च साधन्तस्ते नो धान्तु वसव्य१मसामि ॥
स्वर रहित पद पाठइयम् । एषाम् । अमृतानाम् । गीः । सर्वऽताता । ये । कृपणन्त । रत्नम् । धियम् । च । यज्ञम् । च । साधन्तः । ते । नः । धान्तु । वसव्यम् । असामि ॥ १०.७४.३
ऋग्वेद - मण्डल » 10; सूक्त » 74; मन्त्र » 3
अष्टक » 8; अध्याय » 3; वर्ग » 5; मन्त्र » 3
अष्टक » 8; अध्याय » 3; वर्ग » 5; मन्त्र » 3
पदार्थः -
(एषाम्-अमृतानां गीःसर्वताता) एतेषां जीवन्मुक्तानां विदुषामुपदिष्टा वेदवाक् सर्वसुखदकर्मविस्तारिका “सर्वताता सर्वासु कर्मततिषु” [नि० ११।२४] अस्ति भवतु (ये रत्नं कृपणन्त) ये विद्वांसो रमणीयं मोक्षं प्राप्तुमस्मान् समर्थयन्ति “कृपते समर्थयतु” [ऋ० १।११३।१० दयानन्दः] ‘कृपू सामर्थ्ये’ [भ्वादि०] ततः शप् श्ना च “विकरणद्वयं छान्दसम्” (धियं च यज्ञं च साधन्तः) ते प्रज्ञानं चाध्यात्मयज्ञं साधयन्तः ‘अन्तर्गतो णिजर्थः’ (असामि-वसव्यं नः धान्तु) पूर्णवसुषु भवं श्रेष्ठं ज्ञानधनमस्मासु धारयन्तु “धा धातोः श्लुविकरण औत्सर्गिको बहुलग्रहणान्न भवति” “ बहुलं छन्दसि” [अष्टा० २।४।७६] ॥३॥